________________
देवपितराणांतर्पणविधानवर्णनम्
३०१
तद्व्यर्थमेव भवति व्योम्नि तत्तु विनश्यति । स्थले स्थित्वा जलेयस्तु प्रयच्छेदुदकं नरः नोपतिष्ठेत तद्वारि पित्रादीनां निरर्थकम् । यत्राशुचिस्थलं वा स्यादुदके देवताः पितॄन् ।
तर्पयेत्तु यथाकाममप्सु सर्वं प्रतिष्ठितम् । वामपादं जले कृत्वा स्थले कृत्वा तु दक्षिणाम् शुचिस्थ समासीनो जानुमध्य करद्वयः । उपवीती पवित्राभ्यां युक्तहस्त उदङ्मुखः ॥ फेनबुदबुद कटादिरहितं वारि निर्मलम् । पूर्णेनाञ्जलिनाऽऽदाय देवतीर्थेन तर्पयेत् ॥ देवान्ब्रह्मादिकान्सर्वान्पुत्रपौत्रगणानपि । भूर्भुवः स्वर्देवताश्च व्यस्ताव्यस्ताश्चताः पृथक् तर्पयेत्तु क्रमेणैव शुद्धयज्ञोपवीततः । देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः ॥ पिशाचाः गुह्यकाः सिद्धाः कुश्माण्डा भैरवादयः । जलेचराः भूमिचराः वाय्वाधाराश्च जन्तवः ॥
तृप्ति तेनैव गच्छन्ति भूर्भुवस्तर्पणेन वै । तेनैव चाम्बुना भूयो मोदन्ते दशवार्षिकम् ॥ कराङ्गुष्ठयुगासक्तब्रह्मसूत्रेण मानुषान् । सनकादीनृषींश्चैव कृष्णद्वैपायनादिकान् ॥ भूर्भुवस्स्वस्थितानन्यान्पत्नीपुत्रांश्च पौत्रकान् । कण्ठस्थयज्ञसूत्रोऽयमृषितीर्थेनचाक्षतैः ॥ वेदकाण्डभृषींश्चैव सूत्रकाण्ड ऋषीनपि । तर्पयेदेवविधिना पूर्ववत् प्रत्यङ् (मुख) द्विजः ।। प्राचीनावीतिना पश्चात्पितृजातिसमाश्रितान् । तर्पयेत्पितृतीर्थेन जर्तिलैर्वा यवैर्नवैः ॥ पैतृकेषु दिनेष्वेव तिलैस्तत्तर्पणं चरेत् । सोमश्च पितृमान्पूर्व देवता तत्र तत्परम् ॥ यमोऽङ्गिरस्वांस्तत्पश्चादग्निष्वात्तास्ततः पुनः । अग्निः सोऽयं कव्यवाहः पुनर्बर्हिषदस्तथा ॥
तानेतानखिलान्पत्नीन्पुत्रपौत्रगणानपि । तर्पयेच्च पृथक्त्वेन पितृतीर्थेन भक्तियुक् ॥ एते हि देवपितरः पित्रादीनथ मानुषान् । त्रीन्पित्रादींस्तथा मातृ स्तथा मातामहानपि ॥ मातामहीं पितृव्यादीन्सपत्नीं जननीं तथा । मातृवर्गात्परं मात्रा साकं वा तां पृथक् च वा ॥
तर्पयेदेव विधिना मातामहकपूर्वतः । मातामह्या दिकानां तु परतस्वकलत्रकम् ॥