________________
ब्रह्मयज्ञप्रशस्तिवर्णनम्
२६६ यजेत्प्रश्नेन शक्तश्चेत् अनुवाकेन वाऽथवा । मन्त्रेण वाक्यमात्रेण प्रज्ञा तेनैव नान्यथा
ब्रह्मयज्ञं प्रकुर्वीत ( ... ... ) नित्यमेव वै । नमो ब्रह्मण इत्युक्त्वा परिधानीयकामृचम् ।। त्रिराहदर्भपाणिस्सन्वृष्टिमात्रेण तत्परम् ।
समापयेज्जलंस्पृष्ट्वा तान्दर्भा स्तनिक्षिपेत ।। स्वाध्यायी तु वेदस्य ब्रह्मयज्ञाय सन्ततम् । इषेत्वेत्यनुवाकान्तमनुवाकांस्ततः पुनः॥ चतुरस्त्रीनथद्वौ वा यथाशक्ति नमभ्यसेत् । अभ्यस्तमात्र (......) मधीयीतैव तत्परम् भद्रं कर्णेभिरित्यत्र नात्यन्तं ब्रह्मपाठके । मन्त्रद्वयं त्रयं वापि समधीतैव तत्परः।।
ऋग्वेदेऽप्यग्निमीलेति अग्नआयाहि सामनी ।
शंनोदेवी (...) परमे वेदवाक्यमृचं तु वा ॥ वदेदधीत्य विधिना साक्षात्कल्पे ततः पुनः । अथातोदर्शपूर्णेति प्रणयत्यन्तकं जपेत् ॥ वृद्धिरादैच् सूत्रमध्ये तत्त्रयं समुदीरयेत् । ऋग्वेदलक्षणेचापि ग्लौःग्मेति च वदेत्तथा । पञ्चसंवत्सरमिति ज्योतिः सूत्रं च तद्वदेत् । मयरेत्यादिकं सूत्रं छन्दोविचिति मध्यगम्
अथाऽतो जैमिनेः सूत्रमथाऽतो व्यासभाषितम् । अहं वृक्षस्य तत्पश्चाद् भूर्भुवः सुवरित्यथ ।। नमो ब्रह्मति तेषां तत्परिधानीयकामृचम् ।
त्रिरुत्वा वृष्टिवाक्यं च समुच्चार्य जलं स्पृशेत् ।। धृतान्दर्भानप्सु नित्यं निक्षिपेदिति तत्क्रमः । यावदध्ययनात्तस्य वेदाध्येतुर्दिने दिने । फलं भवति तावञ्च वेदानध्येतुमप्यति । फलंभवेत्तत्वमुक्तमाद्रचित्तस्य कर्मिणः॥ वेदिवेदैकसञ्चित्तशालिनः कृतिनः सतः । गुह्यमेतत्प्रकथितं समस्तोपनिषद्गतम् ।। अजस्रं ब्रह्मयज्ञान्ते यत्किञ्चिदक्षिणां ततः । प्रदद्यात्तु तदङ्गार्थे सायं यज्ञो दिने दिने कर्तव्यत्वेन विहितो जामितारहितेन वै। ब्रह्मयज्ञमकुर्वाणो ब्राह्मणो यदि मूढधीः॥ भुङ्क्त तूष्णीं सद्य एव वेदद्रोह्यपि दुग्गुरोः । देवद्रोही पितृद्रोही तीर्थद्रोही भवेदपि ।। तस्मात्तु ब्राह्मणो विद्वान्देवर्षिपितृतुष्टये। स्वानृण्याय भुक्त्यर्थं ब्रह्मयज्ञपरो भवेत् ।।