________________
२६८
लौगाक्षिस्मृतिः संतुष्ट एव प्रभवे ( ... ...) भवेन तु। मध्याह्नस्नानपरतः ब्रह्मयज्ञं समाचरेत् ।।
. ब्रह्मयज्ञः उदयानन्तरं केचित्तमिच्छन्ति द्विजोत्तमाः।
प्राक् सायान्तस्यकालः स्यादित्येवं वेदिनां मतम् ॥ प्रागषूदगमेषु दर्भेषु सुसमाहितः । प्राणानायम्य विधिना देशकालावुदीर्य च ॥ तिथौ च प्रकृते पुण्यनक्षत्रादियुते शुभे । परमेश्वरतुष्ट्यर्थं ब्रह्मयज्ञेन संप्रति ॥ यक्ष्येऽहमिति संकल्प्य विद्युन्मन्त्रेण तेन वै । अवनिज्य करद्वन्द्व त्रिराचामेत्ततः परम् द्विवारं परिमृज्यैवमुपस्पृश्य सकृजलम् । शिरश्च चक्षुषी पश्चान्नासिके श्रोत्र एव च ॥
हृदययेलभ्य विधिना पच्चोर्धर्चश एव च ।
ततः सर्वा च गायत्रीं व्याहृतीभिः समन्विताम् ।। पादादिषु तथान्ते वा चोपदेशविधानतः। त्रिरन्वाह विधानेन ह्यनवान ... ताम् ।
भृचो अक्षर इत्युक्त्वा त्रिवारं चार्थसिद्धये । शक्त्या प्रश्नानुवाकौघ मन्त्राणां ब्राह्मणस्य वा ॥ विधीनामार्थवादानां क्रमाद्भागान्दिने दिने ।
तत ( ... ... ...) नखिलानपि । अधीयीतैव धर्मेण तदीयेनैव नान्यथा । एवं स्वयं वर्जयित्वां समस्वरसमाश्रयात् ॥ उच्चैर्वदेवहि मे ग्रामे तु मनसैव वै । तं स्वाध्यायमधीयीत तपस्वी पुण्यवान्भवेत् ॥ ऋचामध्ययनेनापि भवेयुः क्षीरकुल्यकाः । भवेत्कल्पितवान्नित्यं तेषां च यजुषामपि।।
खरोच्चारणतो विद्वान् घृतकुल्या (... ...)। प्रभवत्येव सततं तत्सामाध्ययनेन चेत् ।। सोमधारा महाकुल्या कारकोऽयं सदा भवेत् ।
तदन्तर्गतगाथानामितिहासानुरूपिणाम् ॥ पुराणानां च प (... ...) तीः प्रियाः । कल्पातल्पानल्पभोगजनको जनयेदपि ।