SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ गायत्रीप्रशंसावर्णनम् ___२६७ गायत्रीमूलको विप्रो न निन्द्यःस्यात्प्रवच्म्यहम् । भूयोभूयः प्रवक्ष्यामि ब्राह्मण्यं तन्महात्मनाम् ।। गोपनीयं प्रयत्नेन स्पष्टीकरणाक्षयम् । सन्ध्याशिखोपवीतैस्तैरन्विष्टः प्रथमैः पदैः॥ ब्राह्मण्यं बुद्धिपूर्वेण पालनीयं महात्मनाम् । युगानुरूपाः सर्वत्र ब्राह्मणा भूतलेऽधिकाः॥ तथा देशानुरूपाश्च कदाचित्तु तथा तथा । प्रदृश्य(न्ते)वर्धते सन्तौ सन्तश्च ते पराः॥ तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः । यस्मिन्देशे यदाचारा ब्राह्मणा धर्मवर्धकाः॥ संप्रदायाश्च कृत्याश्च ताः कदाचिन्न लङ्घयेत् । स्नानं स्नातजलम्नानं स्पर्शस्नानं समीक्षणात् ।। सततं संगवस्नानं मध्याह्नस्नानमेव च । ( ... ... ) दिषु तत्तेषां दूषणाय न ॥ देशधर्मास्तादृशाः स्युः त एते दूषणाय न । नौपासनं कचिदशे न स्थालीपाकमेवच ।। न देवार्चा ब्रह्मयज्ञः सान्ध्यं कर्मत्रयं च तत्। एकदाका ( ... ) मन्त्राभसक्ति रपि केवला ॥ प्रदृश्यते तत्र तत्र मृत्तिका शौचशून्यता । एकवारो धृतजला त्रिवार च मनःक्रिया ।। एवं जातीयकाचारा युगदेवाविपर्ययात् । द्विजत्वजातिनाशाय न भवन्त्येव सर्वदा॥ परंतु तादृशं ब्रह्मदोषयुक्त भवत्यति । सामीचीन्यं नैति तस्मात् तत्तिष्ठतु यथा तथा तजातिभाव ( ...... ) वन्द्य न निन्द्य पूज्यमप्यति । अप्रशस्तं यद्यपि स्यात्तथाप्ये तत्तु जातितः ।। स्वीकार्यमपि संग्राह्य वाङ्मात्रेण समर्चयेत् । याचितस्तेन दद्याच शक्तया तन्न तु वञ्चयेत् ।। तद्वश्चनेन ते देवाः वञ्चिताः स्युर्नसंशयः । यतस्तु ब्राह्मणः सर्वदेवरूप इति स्मृतः॥ तदेतदास्तां बहुना पौनः पुन्येन किं वृथा । स्नानौपासनतः पश्चात् कुर्याद् वै ब्राह्मणोत्तमः ।। वेदानध्यापयेच्छिष्यवृन्दकं शास्त्रमेव च । अधिगच्छेदीश्वरं च यदृच्छालाभकोप्यति ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy