________________
२६४
लौगाक्षिस्मृतिः ओं भूरिति च तस्यास्य वाक्यान्तं खण्डयेत्परम् ।
तत ओं भुव इत्येव ओ थे सुव इति स्म वै ॥ समाप्य वाक्यं तत्पश्चादों महति स्म च । ओं जनः पञ्चमं च ओं तपः षष्ठमप्यथ ।।
ओ सत्यं सप्तमं स्यादूर्ध्वलोकैकराजकाः। भूरित्यादि महाशब्दाः सप्तव्याहृतिवाचकाः॥ ओंकाररूपा इत्येवमोंकारो ब्रह्मवाचकः ।
एवं संचिन्त्य विबुधः ओमापो ज्योतिरित्यपि ।। वाक्यशेषं पूरयित्वा तदन्ते पुनरेव वै। भूर्भुवस्सुवरोमुक्त्वा सर्वै रेतैश्च मन्युभिः॥ त्रिवारं रेचकं कृत्वा पूरकं कुम्भकं तथा । मन्त्रज्ञो मन्त्रवाक्येन प्राणायाभं समाचरेत् सर्वकार्येष्वेवमेव प्राणायामविधिः स्मृतः । एवं कर्तुं शक्तिहीनः एकं वाक्यमशेषकम् ॥ तूष्णीकं वा जपेन्नित्यं त्रिवारं नासिकाकरः । प्राणायामफलं मूढो लभतेऽपि न संशयः
ब्राह्मण्यस्य प्राणायामः निदानं सा यथा शिवा । · गायत्री सर्ववेदानां माता श्रेयस्करी परा॥ सन्ध्याप्रयुक्तगायत्री मन्त्रसंख्यजपं ह्यहम् ।
करिष्येत्येव संकल्प्य पूर्वोक्त नैव वर्त्मना ।। जपं कुर्याद्यथाशक्ति तत्तन्यासादिकं पुनः । (मन्त्र)तत्तर्षिन्यासबीजमुद्रास्त्रादिकमप्यति आहिताग्नेर्वैदिकस्य मन्त्रार्थज्ञस्य कर्मिणः । अत्यन्तावश्यकत्वेन करणं नेति वेदिनः। प्रोचुः किल महात्मानः तदेतदखिलं पुनः । वेदकर्मादिकं तूष्णीं तूष्णीकस्यैकतन्त्रिणः।। अमन्त्रस्य विहितं वैदिकस्य तु तस्य चेत् । प्रधानवेदोक्तमन्त्रमात्रस्यैव परं पुनः ।। उक्तिमात्रेण सन्ध्यामात्रं गायत्रमेव च । जपमानं प्रधानं चेत्तदुपस्थानमेव च ॥ गोत्राभिवन्दनं चैव दिङ्नमस्कारमध्यकम् । कर्तव्यत्वेन विहितं नान्यत्किमपि तस्य वै तथा किमर्थमित्युक्त तस्य वेदोक्तकर्मणः। अग्निहोत्रस्य मुख्यत्वात्तस्योद्धरणकर्मणः ।। उदयास्तमनात्पूर्व कर्तव्यत्वाख्यहेतुना। तत्रोक्तस्य तस्यास्य दुर्भाक्तत्वं न संशयः ।। तान्त्रिकादपि च स्मार्ताद्वदिकं कर्मसूरिभिः। सर्वोत्तरमितिप्रोक्त तस्मादेतं तु दुर्बलम्