________________
गायत्र्या आवाहनवर्णनम्
२६३ यो ध्यायेद्वाजपेद्वापि पापीयान्जायते हि सः।
अतः ऋष्यादिकान्ज्ञात्वा मन्त्रमात्रस्य मानसः॥ जपं कुर्यात्प्रयत्नेन देवता तेन तुष्यति । मन्त्रसिद्धिश्च भवति तस्मात्तत्तु तथा चरेत् ।। मन्त्रार्थज्ञस्य विदुषो नैतदावश्यकं परम् । ऋष्यादितत्परिज्ञानकथनं कृत्स्नमेव वै ।। तदर्थज्ञानोपायस्य सरण्याः प्रतिपादनम् । नित्यं जपेत्तु सावित्री सान्ध्यकर्मस्वतन्द्रितः पृथत्त्वेन सहस्र वैन चेदष्टोत्तरं शतम् । अष्टाविंशतिसंख्याकं दशन्यूनं कदाचन ।। न कुर्यादेव सहसा कुर्याच्चेद्ब्रह्म नश्यति । विशेषेणात्र भूयश्च ब्रह्मचारिगृहस्थयोः ।। अष्टोत्तरशतान्यूनमष्टाविंशतिमेव वा । वानप्रस्थयतीनां तु सहस्रान्यूनमुच्यते ॥ यतिरत्र प्रकथितः कुटीचकबहूदकौ । हंसस्य परमहंसस्य न गायत्रीजपः स्मृतः॥ तयोर्जपः प्रकथितः प्रणवस्यैव केवलम् । सूतके मृतके वापि गायत्र्या जप उच्यते ॥ सन्ध्यात्रयोदशैवेति प्रदोषेऽपि तथैव वै । देशक्षोभे महापत्तौ मार्जना(O)घसंभवात् सन्ध्यागतं सहस्रांशुं मन्त्रैः कुर्यादुपस्थितम् । जलाभावेनाjमात्रं रजसैतद्विधीयते ॥
दिग्भ्यश्चैव विदिग्भ्यश्च देवताभ्य प्रणम्य च । आत्मपादौ तथा भूमि सन्ध्याकालेऽभिवादयेत् ।। आयुर्विद्यां तथा रोग्यः स्त्रियः कामास्सुदुर्लभाः।
मनसा चिन्तितानान्प्राप्नोति पुरुषर्षभः ॥ अर्घ्यदानात्परं सम्यगुपविश्यासने शुभे । व्याघ्रचर्मादिके शुद्ध ओमित्येकाक्षरं मनुम् आयातु वरदां चेति यदह्रादिति तत्परम् । सर्ववर्णेति च ततः ओजोसीत्यादिकं ततः
अत्यन्तसप्तकं जप्त्वा तदन्ते वेदवित्तमः। अभिभूरोमिति प्रोक्त्वा गायत्रीमिति तत्परम् ।। आवाहयामीत्युक्त्वा च सावित्री च सरस्वतीम् ।
छन्दर्षीश्च श्रियं पश्चात्प्रोक्तषु च पृथक् पृथक् ।। आवाहयामीत्यावाह्य गायच्यादिकशेषकम् । समुदीर्याथ योन्यन्तो मन्त्रमध्ये पुनश्च वै प्राणापानव्यानोदानसमानार्कवाक्यके। विनियोगपदं चान्ते प्रथमां तेन वर्णयेत् ।।