SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २४२ . लौगाक्षिस्मृतिः . क्षुभ्यन्ति देवतास्तस्य पितरो विलपन्त्युत । तस्मान्निदर्शयेन्मुद्रा यस्यकस्यापि देहिनः भक्ताय वैदिकायैव(ततःशुद्धस्य देहिनः । भक्तस्यैव वदेत्रीत्या नाभक्ताय कदाचन ।। कुर्यादाद्यन्तयोर्देव्या जपस्य ध्यानमुत्तमम् । तद्ध्यानं च प्रवक्ष्यामि तेषामेकं श्रुतीरितम् ।। मुक्ताविद्रुमहेमनीलधवच्छायैर्मुखैस्ती(स्त्र्य)क्षणैः । युक्ताविन्दुनिबद्धरत्नमकुटा तत्वार्थवर्णात्मिकाम् ॥ गायत्री वरदाभयाङ्कुशकशाः शुभ्र कपालं गुणं । शङ्खचक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ इति ध्यात्वा सुखासीनो जपं कुर्यात् त्रिकर्मसु । हस्तेनावर्तयेह वीमक्षसूत्ररथापि वा ॥ प्राङ्मुखोदङ्मुखो वापि जपमात्रविचक्षणः । सूर्यस्याभिमुखः प्रातः गुरुदेवाग्निदिङ्मुखः ।। न्या(ना)सामन्यस्तदृङ्मौनी गायत्रीजपमाचरेत् । त्रिविधो जपयज्ञः स्यान्मानसोपांशुवाचकः॥ मानसो मनसःकार्यो मन्त्रवाक्यार्थचिन्तया। उपांशुरोष्टसंस्पर्शमात्रस्य श्रुतिगोचरः।। उच्चैर्भाषा जपः कार्यः परश्रवणगोचरः। मुक्तिदो मानसो ज्ञेयोपांशुः सर्वत्र सिद्धिदः॥ क्षुद्रकर्मणि भाष्यः स्यादित्युक्तः त्रिविधो जपः । प्रातरुत्थाय पाणिभ्यां हस्ताभ्यां दिनमध्यमे ॥ अधोमुखाभ्यां पाणिभ्यां सायं संलक्षितो जपेत् । तिष्ठन्नेव जपेहवीं प्रातरासूर्यदर्शनात् ।। मध्याह्न तु जपेद्दवी मासीनस्तिष्ठतोऽपि वा । कुशवृस्या समासीनः सायं नक्षत्रदर्शनात् ॥ प्रामुखस्तु जपेत्प्रातः मध्याह्न प्रागुदङ्मुखः । प्रत्यङ् मुखस्तु साया दैवे वा गुरुसंनिधौ ॥ तन्मुखस्तु जपं कुर्यात्तन्मन्त्रं तत्र सिद्ध्यति । अविदित्वा ऋषिच्छन्दो दैवतं योगमेव च
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy