________________
गायत्री जपारम्भकाले चतुर्विशतिमुद्रावर्णनम् २६१ गोकारं स्वर्णरूपं स्यात् स्तेयदोषहरं परम् । देकारंरजतप्रख्यमपेयवृजिनापहम् ।। पकारं मणिवर्णाभ मपाङ्क्त यादि पापहम् । स्यकारं पिङ्गवणं स्याद्विश्वासद्रोहि पापहम् धिकारं मरकताकारं पैशुन्याद्यघहं विदुः । मकारं स्फटिकप्रख्यं गुरुतल्पाघनाशनम् ॥
हिकारं गारुत्मताकारं तत्सङ्गादि महाघहम् ।
धिकारश्चि(ञ्चि)न्तयेच्छुक्लं क्षत्रहत्यादिदोपहम् ।। योकारो ममरूपोऽयं भार्याहरणदोषहम् । द्वितीयं चैव योकारं रुक्माभं पापनाशनम नः कारं सूर्यसंकाशं चिन्तयेत्क्रौर्यपापहम् । प्रकारं तिलवर्णाभं शिवसायुज्यदायकम् ।। चोकारं तु सुवर्णाभं विष्णुसायुज्यदायकम् । सितवणं दकारं तु ब्रह्मसायुज्यदायकम्।। यात्कारमुशिरः प्रोक्तश्चतुर्वदनसप्रभः । प्रत्यक्षफलदो ब्रह्मविष्णुरुद्रस्वरूपकः । आग्नेयं प्रथमं तत्र द्वितीयं वायुदैवतम् । तृतीयं सूर्यदैवत्यं चतुर्थं वैद्युतं तथा ॥ पञ्चमं यमदैवत्यं षष्ठं वारुणमुच्यते । वार्हस्पत्यं सप्तमं तु पार्जन्यं त्वष्टमं विदुः ॥ कौबेरं नवमं विद्याद्वधं दशममुच्यते । एकादशं तु रौद्रं स्यादादित्यं द्वादशं भवेत् ।। त्रयोदशं वैश्वदेवं साध्यं तच्च चतुर्दशम् । धौमं पञ्चदशं ज्ञेयं पोडशं भानुदैविकम् ।। प्राजापत्यं सप्तदशं गारुडं तदनन्तरम् । एकोनविंशं विज्ञेयं कौमारं चिन्तितार्थदम् ।। आश्विनं चैकविंशत्यं प्राजापत्यं च विंशकम् । सर्वदैवतकंचेति चैकविंशकमक्षरम् ।। द्विरूपं तस्य विज्ञेयं महा...ख्यकं पुनः । रौद्रं द्वाविंशकं प्रोक्त ब्राह्मचैव ततः परम् वैष्णवं चतुर्विशं तु चैवमक्षरदेवताः। जपकाले तु संस्मृत्य तासां सायुज्यगो भवेत् ।। अथासां दर्शयन्मुद्राः सुमुखं संपुटं तथा । ततो विततविस्तीर्णी(ण) द्विमुखत्रिमुखे ततः चतुर्मुखं पञ्चमुखं षण्मुखाधोमुखं पुनः । व्यापकाञ्जलिकं चैव शकटं तदनन्तरम् ।।
प्रथितं यमपाशं च ततः स्यात्सन्मुखोन्मुखम् । विलम्बिमुष्टिकानामिमत्स्यकूर्मवराहकाः ।। सिंहाक्रान्तं महाक्रान्तं ततो मुद्गरपल्लवौ ।
चतुर्विशति मुद्रास्ताः कथिताश्च यथाक्रमम् ।। अज्ञानादर्शयन्मुद्रा महाजनसमागमे । महापापमवाप्नोति तन्मन्त्राश्चा(?)पि हीयते।।