________________
२८८
लौगाक्षिस्मृतिः गायत्रीमन्त्रितं पूतं त्रिवारं तु तुरीयकम् । प्रायश्चित्तार्थमित्युक्त पश्चादाचमनेन वै॥
सा दैत्यपीडा नष्टा स्यान्नित्यमेव सदीरितम् ।
एवं ज्ञात्वा द्विजो नित्यमर्घ्यदानं यतश्चरेत् ॥ रक्षः पीडानिवृत्तिः स्यात्सूर्यस्यायत्रयेण यत् । जायते तेन तस्याय॑ अर्चनारूप उच्यते
असावादित्यो ब्रह्मति यद्ध्यानं क्रियतेऽन्वहम् । तदेव सान्ध्यमित्युक्त कर्म ब्राह्मण्यमूलकम् ।। तद्गायत्र्या विसृष्टायाः सिद्धयर्थं पुनरेव वै।
प्रातिलोम्येन तां देवीं समाकर्षणमाचरेत् ॥ तन्मन्त्रमेव सततं वदन्ति ब्राह्मणोत्तमाः । यादचो प्रनयोयोधि हि मधीत्वस्यवदेोभ
यंगिरेवतु वित्सत गायत्री जपकाले तु ब्रह्मयज्ञादिकेऽपि च ।
संहितोक्तिप्रकारेण वैदिकोक्तिनिंगद्यते ॥ गायत्रीप्रथमामन्ते णकारस्य प्रधानतः। मकारस्यहि संयोगः तस्मात्सोऽयं तु वर्णकः
संयुक्तनामको ज्ञेयः एक एवेति वेदहृत् । तत्राद्यपादो गायत्र्याः कृत्वा भिन्नं तु नोश्चरेत् ॥ अभिन्नपादा गायत्री दृढावलवती सदा ।
प्रवरा सा विशिष्टा स्यादिति वेदविदां मतम् ।। पुनः केचन गायत्रीं वर्णयन्ति महर्षयः । प्रविभक्तपदामेव जपेयुरिति सान्ध्यके । भूगुराहात्र सर्वज्ञो गायत्री वेदमातरम् । पादत्रयेणैवसम्यग्विश्वामित्रोऽपि जैमिनिः॥
ऊचतुश्च महात्मानौ गायत्रीजपतत्परौ। अच्छिन्नपादां गायत्री जपं कुर्वन्ति ये द्विजाः॥ अधोलोकान् हि गच्छन्ति कल्पकोटिशतैरपि ।
छिन्नपादा तु गायत्री ब्रह्महत्यादिनाशिनी ।। अच्छिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति । तस्मात्पादत्रयं भित्वा जपयज्ञं समाचरेत् इत्येवं भगवानाहकाश्यपो वेदवित्तमः । सकण्यश्च तथैवाह गायत्री जपलक्षणे॥