________________
२८६
लौगाक्षिस्मृतिः
सुखेन मार्जनं कुर्यात्करकादौ न धारया । कराभ्यां तु कुशान्धृत्वा प्राक्कूलेषु कुशेषु च ॥ प्राङ्मुखोदङ्मुखो वापि सन्ध्योपास्ति समाचरेत् । तिथिवारादिकानुक्त्वाऽनुक्त्वा वा शुद्धचेतसा ॥
परमेश्वरतुष्ट्यर्थमुपासिष्ये क्रियामहम् । सन्ध्याख्यामित्युदीर्येव देवतीर्थात्कुशामतः ॥ आपोहिष्ठेति तिसृभि र्मार्जयेन्मूर्ध्नि शुद्धये । ता एव तिस्रः परमा यजुष्ठेन क्रियासु चेत् ॥
नवप्रणवसंयोगात्प्रतिपादादिषु क्रमात् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥ नवप्रणव योगेन क्षिपन्वारि पदे पदे । विप्रुषोष्ठौ क्षिपेदूर्ध्व मधो यस्य क्षयाय च ॥ धाराच्युतेन तोयेन सन्ध्योपास्तिर्विगर्हिता । तामेतां गर्हितां सन्ध्यां महात्मानो महर्षयः ॥
पितरो न प्रशंसन्ति न प्रशंसन्ति देवताः । मन्त्रपूतं जलं यत्तदापोहिष्ठादिमन्त्रितम् ॥ पतत्यशुचिदेहे तु सद्यःपूतो भवेद्ध्वम् । सन्ध्यात्रयेऽपि कर्तव्यमापोहिष्ठादिमार्जनम् सूक्तं रब्देवतैरन्यैः कुशाग्रर्देवतीर्थतः । प्रोक्षणानन्तरं सान्ध्ये तन्मन्त्रैर्याजुषैः परैः ॥ सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् । आपःपुनन्तु मध्याह्ने े ततोऽप्यद्भिर्द्विराचमेत् ॥
गालवोऽत्र क्रमं प्राह मन्त्राणां मार्जनस्य वै । आपोहिष्ठेति नवकं दधिक्रावाद्वयं ततः ॥ तदेवनवकंभूयः चतस्रश्च हिरण्यकाः । एतत्क्रमेण तत्कुर्यान्मार्जनं त्रिषु कर्मसु ॥ मार्जयित्वा विधानेन गायत्र्या द्विपदाख्यया । हस्तेनोदकमादाय क्षिपेद्भूमावधोमुखम् ॥
बहिर्जले नित्यमेव पादमेकं जलेक्षिपेत् । पुनस्तथा परं पादं भूमौ संस्थापयन्ततः ॥ हस्तेनोदकमादाय तदाचमनकादिकाः । क्रियास्सर्वाश्च कर्तव्याः अर्घ्यदानादयो जले ॥ निवर्त्यस्तिष्ठतास्तत्र तस्मान्नीरात्पुनस्तदा । समुद्धरणमेव स्यात्तच हस्तेन नान्यतः ॥ बहिर्जलेनोद्धरिण्या न गृह्णीयाज्जलं बुधः । सर्वकार्येषु तत्किंतु हस्तेनैव समुद्धरेत् ॥ यदिमन्दिरसन्ध्यास्यात्तदाचमनकादिकाः । द्विमुरूयोदकतश्चेत्तु तत्पानोद्धरणादिषु पृथक् पृथक् च कथितमतिरात्रफलं शिवम् । द्विमुखीगतपानीयं गोकर्णेन यतन्यदि ॥