________________
बाह्यान्तरशौचयोनिरूपणम्
२७६ काष्ठादिना त्वपानस्थममध्धं निमजेत च । यथाजलं निर्भयं च लभेत च भवेत च ।। तथा सवं यथाशास्त्रं प्रायश्चित्तप्रपूर्वकम् । कुर्यादेव विधानेन तथा सन्ध्यादिका अपि आपत्काला कृताः पश्चाद्भवेयुर्नात्र पातकम् । कन्दमूलफलाङ्गारैः नामध्यं निमजेत च पाषाणलोष्ठदुष्पत्रैः क्षुद्ररर्मकपालकैः । आपत्सु निमजेद्गुह्यपुरीपोत्सर्जनात्परम् ॥
आपत्कल्पानि सर्वाणि विपत्स्वेव भवन्ति हि । तान्यनापत्सु कुर्वाणो नरो गच्छेदधोगतिम् ॥ शौचयत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ॥ शौचं तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृजलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथान्तरम् ॥ वस्त्रेणान्तरितं शिश्नं वामेनादाय पणिना । शुद्धाकारस्थिता मृत्स्ना शौचायालं समाचरेत् ।। श्मशानवर्त्मवल्मीक द्र म ध्यानजलस्थिताम् । अन्यशौचावशिष्टां तु तुषारङ्गारयुतां त्यजेत् ।। रोगात्यन्तापरवशः राजपीडावशोऽपि वा। पलायमानश्च भिया शौचं कालोचितं चरेत् ।। अरण्यकेषु मृत्स्नाया प्रामेष्वाहरणं विधिः।
नीरतीरे शुचौ मृत्स्ना विधायाभ्युक्ष्य वारिणा ।। दक्षपाणिपुटाकृष्टे प्रथमं शोधयेन्मृदः । धात्रीसमानया यद्वा मृदामुष्ट्यर्धक्लमया ॥ आदाय दक्षहस्तेन वामपादौ नियुक्तया । मृजलोत्तरया पायुं क्षालयेत्पञ्चसंख्यया ।। एकया क्षालयेच्छिश्नं दशभिर्वामहस्तकम् । मृत्स्नाभिः सप्तभिः हस्तौ परिमृज्य शुभैर्जलैः
एकैकया मृदा पादौ हस्तौ प्रक्षाल्य चाचमेत् ।
एका तु मृत्तिके लिङ्ग तिस्रः सव्ये करे मृदः॥ करद्वयेमृवयं स्यान्मूत्रशौचे प्रकीर्तितम् । शौचमेव गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।।