________________
२७८
लौगाक्षिस्मृतिः साधूनां समयश्चापि प्रमाणं वेदवद्वदेत् । श्रुतिद्वधं तु यत्रस्यात्तत्र धर्मावुभावपि । स्मृत्योर्विरोधे संप्राप्त मनुवाक्यस्यसंमतिः । यदेव तत्परं प्रोक्तं बहुस्मृतिमतं तथा ॥
आचार्यस्य विरोधे तु स्वदेशात्तु व्यवस्थितिः। त्यक्ताया व्यभिचारिण्या बन्धुभिस्तत्कलत्रकैः ॥ स्वप्रामवासिभिर्लोकः पश्चात्कल्पान्तरात्पुनः ।
स्वीकारो युज्यते नैव त्याग एव सदा मतः॥ त्यागात्परं तु नारीणां पुनः स्वीकरणात्कुलम् । प्रदुष्टं प्रभवेन्नूनं तदीयं तन्महद्भयम् ॥ कृत्स्नस्य तत्कुलस्यैव जायते साथिकाखिला । नापि दुष्टा परित्यक्ता परसदोषशङ्कया। तद्वन्धूनामबन्धूनां पश्चात्संग्रहणाक्षमा । प्रायेण नारी लोकेषु विधवा सधवा तथा ॥ सदुजङ्गदुरालापैः शङ्कितापि प्रदुष्यति । मद्व्यापकीर्त्या पुरुषो दुष्टसंन्यासशब्दतः। अतो हीयेत स पुनः तरेन्नैव प्रवच्मि वः। अपवादभियात्री वापुमान्वा सततं यतन्
जीवेत कीर्तिमानेव कीर्तिमान्पुण्यलोकभाक् । अपकीर्त्या निन्दितस्य नोवं लोकं कथंचन ।। यशो लभ्येत पुण्येन यशः क्ररेण पाप्मना ।
अयशस्वी सर्वधर्मैः स्नानसन्ध्यादिकैः स्वकैः ।। जपैहोंमै स्तपोभिश्च हीयते नात्र संशयः। अप्रमत्तश्च सततं विनिद्रः कालनिद्रकः॥
नित्यं देवान्भाबयंश्च प्रध्यायन्मनसा हरिम् ।
संस्मृत्य तदहः कार्य सन्ध्योपासन मारभेत् ॥ शिरः 5 वरणं कृत्वा निवीती पृष्ठतो व्रजेत् । कर्णालम्बितसूत्रेण भूतबाधानिवृत्तये ॥
दिशोऽवलोकनं कृत्वा तृणैराच्छाद्य मेदिनीम् ।
विण्मूत्रावुत्सृजेन्मौनी दिबा चैब तु सन्ध्ययोः॥ उदरमुखः प्रकुर्वीत रात्रौ चेदक्षिणामुखः । हलकृष्टे जले चित्यां वल्मीके गिरिमस्तके॥ देवालये नदीतीरे दर्भदेशेषु वालुके । सेव्यक्षेत्रेषु सच्छाया मार्गेगोष्ठाम्बुभस्मसु ॥ अग्नौ च गच्छस्तिष्ठंश्च विष्ठामूत्रेतुनोत्सृजेत् । सर्वे निषेधा नैवस्युः प्राणबाधा भयेषुवै