________________
२७६
लौगाक्षिस्मृतिः अथात इति तत्सूत्रद्वयस्यापि क्रमेण वै । तत्समत्वेन विहितोपदेशो वेदकर्मणि ॥
तस्मादेतानि सर्वाणि ह्यलध्यान्येव सर्वदा।
पुराणधर्मशास्त्रादि(शास्त्रा)णि निखिलान्यपि ॥ न तैस्समानिति बुधाः प्रवदन्ति यतस्तु हि । नोपदिष्टानि तानि स्युः प्रतिसंवत्सरंपरम्॥ उपदिष्टानि तु पुनः यानि कर्माणि तादृशे । स्युरेवलचनीयानि गुरूणि प्रतिवत्सरम् ॥
द्विवारं बहुधा वृत्या यावज्जीवं विशेषतः। तस्मात्तु धर्मशास्त्रादि प्रोक्तादि निखिलान्यपि ॥ कर्माणि करणे नित्याभ्युदयादिप्रदानि हि । त्यागे तु प्रत्यवायैकप्रदानि न भवन्ति हि ॥ तस्मात्तु दर्शिते वेदाः प्रमाणान्यखिलाः पराः।
तद्भिन्नास्तदुपसर्जनकत्वे खलु हि कीर्तिताः ॥ आयुर्वेदादयसत्र चत्वारः केवलं नृणाम् । दुष्टप्रयोजकत्वेन धर्ममूला भवन्ति न । आयुः परीक्षात्मकत्वात्प्रथमस्तत्र तादृशः । युद्धोपकरणत्वेन द्वितीयोऽपि तथाविधः॥
श्रोतुः सुखाकरत्वेन तृतीयोऽपि तथा ननु । न्यायेनानेन तुल्योऽपि स्पष्ट एवार्थसाधकः ॥ सर्व श्रौतेषु सर्वत्र स्मातं साधारणं भवेत् । दिक् प्राच्युदीची ग्राह्यति ह्यासीनत्वं च कर्मसु ।। तत् त्र्यङ्गाणामनुक्तौ तु दक्षिणाङ्ग भवेत्तथा।
कुत्सितो वा महस्तस्मादक्षिणः स्यादकुत्सितः॥ यज्ञोपवीतिना कार्य सर्व कर्मप्रदक्षिणम् । उपस्थानेषु सर्वत्र नोपदेशनमुच्यते ॥
अवस्थितिः स्यादयेऽपि विना सायं विशेषतः ।
आचान्तेन प्रकर्तव्यं कर्ममात्रं विचक्षणैः॥ अपसव्यं तु पित्र्यं स्यात्प्राचीनावीतमित्यपि । नामान्तरं हि तस्यैव सव्यं दैविकमुच्यते
निवीतं मानुषं प्राहुः सव्येनैव च सर्वदा। स्थेयं द्विजेनोपवीतं विना तिष्ठेदपि क्षणम् ।।