________________
२७४
लौगाक्षिस्मृतिः आर्यावर्तश्च परमः कृष्णसारनिषेवितः । यागदेश इति ख्यातः दर्भदेशश्च केवलः ॥ पर्शाभूमिश्च परमः पावनो देश एव च। शमीगर्भ प्रदेशश्च राजवृक्षनिषेवितः ।। शम्यश्वत्थोदुम्बराख्यो योऽयंखादिर पुञ्जवान् । बिल्वकाहिततिन्दूकवैककृतविशेषतः॥ देशाः पुण्यतमा ज्ञेयाः सर्वकर्मक सुक्षमाः । सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ॥ तं देवनिर्मितं देशं ब्रह्मावतं प्रचक्षते । एष ब्रह्मभूषेर्देशो ब्रह्मावर्तादनन्तरम् ॥ हिमवद्विन्ध्ययोर्मध्ये यत्नाविनशनादपि । आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात्॥ तयोरेवान्तरे पुण्य आर्यावर्त इति स्मृतः । आर्यावर्तः पुरोदेशः ऋषिदेशस्ततोऽधमः ।। मध्यदेशस्ततो न्यून आर्यावर्तस्ततोऽधमः । विष्णुकान्ता मही सर्वा पवित्रेयं स्वभावतः तत्र दुष्टजना यत्र स देशो निन्दितोऽखिलैः। यत्र सज्जनसन्दोहो यत्र श्रोत्रियसंहतिः
आहिताग्निप्रचारश्च स देशः पर उत्तमः ।
न सन्ति सजना यत्र श्रोत्रिया मन्त्रवित्तमाः॥ कर्मण्याः कर्मकुशलाः स देशो सभ्य एव वै । त्याज्य एव भवेन्नूनं वसन्तत्र नराधमाः॥ कर्मभ्रष्टो भवेन्नूनं परलोकाच हीयते । यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः॥ यत्र बन्धुजनाः सन्तः स्वाचारैकप्रवर्तकाः। न सन्ति तत्र विबुधान तिष्ठेत्क्षणमप्यति यत्र ऋत्विग्जनाभावः वेदशास्त्रश्रुतिस्तथा। स्वाहाकारस्वधाकारवषट्काराः कदाचन ॥ वसन् तत्र कथं मूढच्युतिं जाते गच्छति । देशानां पुण्यदेशत्वं महदैकनिवासतः॥ असदैकनिवासेन कुदेशत्वं तथा स्मृतम् । अङ्गवङ्गादयो देशाः षट्पञ्चा षट्कभेदकाः॥ कदाचित्पुण्यदेशाः स्युः महतां संनिवेशतः । कदाचित्तदभावेन स्युस्ते पापविशेषणाः॥
चण्डालादिप्रदुष्टा ये देशाः पुण्यविशेषणाः।
देवस्थलानि श्रीमन्ति स तान्देशाश्च पुष्कलाः ।। देवगृहा विप्रगृहा भं(?)लाभिरप वारिताः । उच्छिष्टादिप्रदुष्टाश्च जन्तुहिंसादिकुत्सिताः गव्याक्रमणता नूनं पूताः सज्जनयोग्यकाः। भवेयुरेव दिवसः कैश्चिदेकत्रिपञ्चभिः ।। गोविप्रहत्याशतकैः दूषिता अपि वच्मिवः। देवदेशविशेषाश्च धेन्वावासनिवेशनैः ॥ पुनः शुद्धा भवन्त्येव तथामन्त्रोक्षणेन च । पापानामपि पुण्यानां शास्त्रमेकं निरूपकम्