________________
२६८
लौगाक्षिस्मृतिः अथ भूयो विशेषेण खिलमन्त्रान्पठेत च । सप्तहस्तचतुःशृङ्गः सप्तजिह्वो द्विशीर्षकः ।। त्रिपात्प्रसन्नवदनः सुखासीनश्शुचिस्मितः । स्वाहांतु दक्षिणे पार्श्वे देवींवामे स्वधां तथा बिभ्रदक्षिणहस्तैस्तु शक्तिमन्नं नु चं स वम् । तोमरं व्यजनं वामैः घृतपात्रं तु धारयन् आत्माभिमुखमासीन एवं रूपो हुताशनः । एतान्मत्रान्पठित्वाऽथ एष हीति मनुं जपेत
अग्ने प्राङ्मुखदेवेड्य ममाभिमुखतःस्थितः ।
भवेति पूर्वभागेऽस्य सलिलं निक्षिपेत्स्वयम् ।। जलेन तेन भीतस्तु स्वस्याभिमुख एव वै । विभावसुर्भवेदेव तदनन्तरमेव वै॥ प्रार्थयेत्तादृशं देवं सुप्रसन्नो भवेति वै । पश्चाद्भूयः प्रार्थयेच्च वरदो भवमेति च ॥
प्रार्थनात्परतो भूयो गायत्र्या परितोऽस्य वै ।
शुद्धिं जलेन तां कृत्वा परिमृज्य स्वहस्ततः ।। अलंकुर्यादक्षतैर्वा पुष्पैस्तत्कालसंभवैः। त इमे तत्र मन्त्रा स्युरग्नये नम आदिमः ॥ नमो हुतवहायेति नमश्चापि हुतार्चिने()। कृष्णवर्त्मनेध त्रोऽयं पश्चाद्देवमुखाय च ।। सप्तजिह्वाय च नमः नमो वैश्वानराय वै। अथ मन्त्रोऽयमुदितः नमो वै जातवेदसे ॥ (?) यज्ञपुरुषायेति चरमो मन्त्र ईरितः । एवमग्निमलंकृत्य परिषिञ्चेत्ततः पुनः ।।
अदितेत्यादिभिस्सर्वैः चतुर्दिक्षु निरन्तरम् ।
परिषिच्य विधानेन होष्यामि(मी)ति वद्विजान् ।। जुहुधीति च तैरुक्तस्तत्स्थालीपाक देवताः। समुद्दिश्य हुनेन्नित्यं प्रातः सौर्याहुतिर्वरा ।।
कर्तव्यत्वेन सा प्राहः श्रुतिस्साध्वी सनातनी ।
तयैकया महाहुत्या सौर्यया गृहमेधिनाम् ।। प्रतिनित्यं सर्वभूतक्षुन्निवृत्तिसमुद्भवम् । यत्फलं जायते तादृक् फलं प्राप्नोति तत्क्षणात अशेषव्रतकृच्छौघ यज्ञदानतपोर्जितम् । फलं च तत्क्षणान्नूनं जायतेऽत्यल्पयत्नतः॥ नित्यं प्रातर्वहन्युपास्ति तत्परस्य महात्मनः। पुण्यायां वह्निशालायां तत्कार्यकरणोन्मुखाः
सर्वतीर्थानि विबुधाः ब्रह्मविष्णुशिवादयः । गङ्गाद्याः सरितश्चापि सागरास्सप्तपावकाः ।।