SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६६ यज्ञप्रशंसावर्णनम् तपांसि कृच्छ्रयज्ञाश्च निवसन्त्यतिसाध्यसात् । नित्यौपासनिनस्तस्मात्तीर्थचर्यादयोऽखिलाः॥ ये धर्मास्ते यत्नसाध्याः द्रव्यसाध्यश्च केवलाः। कर्तव्यत्वेन विहिता न भवन्त्येव ते परम् एतत्कर्मासमर्थस्य बोधिता शास्त्रजालकैः। नित्यमग्निं विवाहेद्ध मेतं त्यक्त्वाऽपि योजडः धर्ममन्यं हि मनुते स शू (?) शस्मृतः। अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।। आदित्याजायते वृष्टिः वृष्टेरन्नं ततः प्रजाः । तस्मात्तदाहुतिसमो धर्मोऽन्यो गृहमेधिनाम् ।। नास्त्येव सुतरां लोके तस्मात्तदधिकः कथम् । एतादृक् कर्म सिद्धयर्थं ब्राह्मणस्य महात्मनः॥ अन्यानि सर्वकर्माणि योग्यतापादकानि वै। सर्वाश्रमाणां गार्हस्थ्यं परमोत्कृष्टमुच्यते तन्निष्ठः प्रदरेदाशु चित्तशुद्धिमुखेन वै । श्रेयांसि संपदस्तत्र सन्तोषस्सुखमुत्तमम् ॥ समागतप्रत्यवायपरिहारोऽपि सूक्ष्मतः। प्रयासाधिक्यराहित्यं सर्वापभ्रंशसन्ततौ । प्रायश्चित्तैकसौलभ्यं सर्वाश्रमनिवासिनाम् । सर्वोपकारकरणयोग्यतातस्समं न तु ॥ आश्रमान्तरमत्युञ्चमतस्तं नित्यमाश्रयेत् । तदास्तां प्रकृतेः पश्चात्कुर्यादुत्तरसेचनम् ।। अदिते पूर्ववत्प्रोक्तान्वमंस्था इति सर्वतः। द्वितीयमन्त्रेऽनुमते तृतीये च सरस्वते ॥ चतुर्थे देवसवितः परिषेचनहेतवे । पृथक् जलं प्रगृह्णीयान्न त्वैवं सकृदुद्धृतम् ।। औदास्यान्नैऋताग्नेयादथ नैऋतमारुतात् । पश्चान्मारुतभूतेशात्तावदैन्द्रात्तु तुर्यके । होमस्य पूर्वापरयोः कार्य स्यात्परिषेचनम् । श्रितायामाहुतौ कुर्यादुत्तमं परिषेचनम् ।। सर्वकर्मस्वेवमेव कार्य विधिवदेव वै। अग्नेत्वमिति मन्त्रेण सुम्नायेति च मन्त्रतः॥ स नो बोधीति च ततः उपस्थानं समाचरेत् । ___ स्वस्तीति च वदेत्पश्चा दुपविश्याऽथ साञ्जलिः॥ श्रद्धा मेधा यशः प्रज्ञां विद्यांबुद्धिश्रियं बलम् । आयुष्यं तेज आरोग्यं देहिमे हव्यवाहन इति मन्त्रं समुचार्य प्रणमेत च तं शुचिम् । नित्यमेवं सायं प्रातः वैदिको ब्राह्मणोत्तमः अनिर्देवो द्विजातीनां सूक्ष्मं हृदि तु योगिनाम् । प्रतिमा ह्यप्रबुद्धानां सर्वत्र समदर्शनाम्
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy