________________
औपासनारम्भः तदेतत्सर्वशास्ोषु नीतं च बहुधा तथा । एवमौपासनस्यादौ समारम्भस्य यत्र तत् ॥
तिथेरुक्तः परं कर्ता प्रोक्तोपासनमित्यथ ।
आरप्स्येति वचः प्रोक्त्वा तेषु शृण्वत्सु सत्स्वपि ॥ तेनोक्तरेथ भूयश्च यावज्जीवमिति ब्रुवन् । तण्डुलैर्वा यवैर्वेति यावदाधानमेव वा ॥ अर्धाधानं वाथ पुनः तदेतदखिलं परम् । एकौच्छवासेनैव वदेदेवं पत्न्यापि वाचयेत्
औपासनारम्भकाले ह्यभ्यनुज्ञा परास्मृता । ब्राह्मणानां सदस्यानां तत्रत्यानां महात्मनाम् ।। अभ्यनुज्ञामकारोऽयं स्वशक्त्युचितदक्षिणाम् ।
पाचे कस्मिन्विनिक्षिप्य ताम्बूलैः सहतां ततः ॥ पल्या सह समाधाय तिष्ठन्वेदमनुं जपेत् । नमो महद्भ्य इत्येवं नमस्सदस इत्यपि। तन्मत्रोच्चारणात्पश्चान्नत्वा साष्टाङ्गपूर्वकम् । अशेषे हे भे ब्राह्म भवत्पादाप्रदापिताम्
यत्किंचित्तामिमां भक्त्या क्षणिणां कृपयावयोः । स्वीकृत्यौपासनारम्भ योग्यतास्थिति कृत्स्नतः ॥ भवक्त्य(वत्य)नुगृहाणेति वाचोक्त्वा पुनरेव वै । सं प्रणम्य समुत्थाय तिष्ठेतामभिमुख्यतः॥ मा सभा चाथका दृष्ट्वा दक्षिणा तां च भक्तितः। समर्पितां तां संगृह्य अनयोर्वरयोस्सतोः ॥ औपासनारम्भयोग्यतास्त्वित्येव वदेच्च सा ।
एवं लब्ध्वाभ्यनुज्ञान्तां कुर्यात्संकल्पमेव तम् ।। पूर्वोदितं यथावञ्च ततस्तत्कालिकं पुनः । कृत्वा संकल्पमथ च चत्वारि मनुकं वदेत्॥