________________
२६६
लौगाक्षीस्मृतिः पुष्कलानां तु चत्वारि पूर्णपात्रं तदुच्यते । गृहप्रवेश होमाख्येऽप्याग्नेयेऽत्र वरः परम्।। याजकं न तु कर्ता स्यात्कारयितृत्वमेव हि । वरस्येति महात्मानः केचिदाहुर्मनीषिणः तेषां तु हृदयं देवो जानाति किल नापरः । समावर्तनमौज्योश्च सीमन्ते पाणिपीडने
चौलगोदानचिन्तेषु शम्याः कार्याः प्रयत्नतः ।
कार्याः परिधयो नात्र शम्याभावे तु ते वृथा । भवेयुरेव तस्मात्तु तेषु शम्याः प्रकल्पयेत् । यत्र यत्र चरो)मः तत्र तत्र मुखाहुतिः॥ परिधिप्रहरंकुर्यात्सर्थस्रावो विधीयते । प्रधानहोमात्परतः वरयोः स्वीयवेश्मनः॥ समागमनकार्याय मार्गमध्येति दूरतः । दिवसानामनेकेषामतिक्रमणहेतुना ॥ विवाहाग्नेः रक्षणार्थं सायं प्रातस्तदा तदा । तत्कालमात्रसंकल्पं गुप्त्यर्थमिति तं ब्रुवन् प्रातोमं करिष्यामीत्येवं संकल्प्य संयतः । गुप्तिहोमं प्रकुर्याच्च न चेत्स तु सुवैदिकः॥ वर्निष्टो भवेदाशु तस्मात्कालेषु तेषु वै। गुप्तिहोमं विधानेन कुर्यादेव विधानतः॥ इयावान्संप्रयोगश्च संकल्पस्तदनन्तरम् । परिषिच्याऽथ मन्ोण होमश्च परिषेचनम् ।। एतावदेव कर्तव्यं नान्यत्किमपि तत्र वै। स्थालीपाकात्परं तत्र वरयोरुभयोरपि ॥ प्राणायामो भवत्येव संकल्पस्य विधानतः। औपासनस्य कृत्यस्य सदो ब्राह्मणसंनिधौ ओं भूरिति मन्त्राणां पल्या वक्त मशक्तितः । तथा वायुनिरोधस्य रेचकादेश्च केवलम्
नारीणां योग्यताभावात्तदर्थ स्वयमेव तत् ।
वरः सर्व स्वयं कृत्वा तत्परं लौकिकं वचः॥ परमेश्वरतुष्ट्यर्थं करिष्येति तया तु तत् । वाचयेदेव विधिना सवैवैदिक कर्मसु ॥
नियमोऽयं विधिश्चापि तथैवेत्याह सा श्रुतिः। सहत्वमुभयोः प्रोक्त विवाहप्रभृतिस्फुटम् ॥