________________
अन्वारम्भणेब्रह्मणेदक्षिणादानवर्णनम्
सर्वत्र पश्चात्तीनां भिदेयं सार्वदेशिकी |
तामनूयाज समिधं हुत्वा रुद्राय तन्तिचराय वै ॥
इध्मसंनहनं हुत्वा तत्पात्रकुशकाग्रतः । दर्भ्यामभ्यज्य निश्शेष मध्यमूले स्रुवे तथा ॥ मूलाञ्जने सव्यकरमधः कुर्याद्विधानतः । त्रिवारमैवं कृत्वाथ तृणापादानतः परम् ॥ पाणिद्वयेन तद्दर्व्या प्रतिष्ठाप्येष्टदेवताः । प्रहरेत्तु तदग्राणि त्रिरुद्दिश्य तृणं ततः ॥ क्रमेण प्रहरेदेतदङ्गुल्या त्रिर्निवेशनम् । कृत्वा भूमिमुपस्पृश्य मध्यमं परिधिं शुचौ ॥ प्रहृत्याथ तदन्यौ च प्रहरन्तौ विचक्षणः । तदप्रमुत्तरार्घ्यस्य तदङ्गारेषु हस्ततः ॥
(
२६५
प्राणानायाम्य तत्पश्चादुपोहति विधानतः ।।
परिधीनाभिमन्त्रयाथ तदाघारसमिद्वयम् । एकमेकं प्रहृत्यैव विद्वान्देवास्ततः परम् ।। संस्रावभाज उद्दिश्य सर्वाश्चित्ताहुतीहु नेत् । अनाज्ञातत्रयात्पश्चादिदं विष्णोः परेण च ॥ sयम्बकादेश्च तथा यद्विद्याख्याच्च तत्परम् । rai aौरिति मन्त्रस्य पुनस्त्वा रुद्रकस्य च ॥
व्याहृतीरपि हुत्वाऽथ व्यस्ताव्यस्तैकधर्मतः । प्राणानायम्य तत्पश्चात्कृत्वाऽथ परिषेचनम् प्रणीत्यामप आनीय सदसीत्यादिकं जपेत् ।
प्राच्यां दिशीति तत्कृत्यं निखिलं च समाप्य वै 11
समुद्र व इदं यत्तत् कृत्वा पत्न्यञ्जलौ पयः । निनीय पतितं भूमौ तं निरन्तैः कुशाग्रकैः शान्तिरस्त्वित्यादिकैश्च शिरसः प्रोक्षणं चरेत् । ततः परिस्तरान्सर्वानुत्तरेण विसर्जयेत् ब्रह्मणे च वरं दद्याद्दर्शादिषु तु तद्धविः । शिष्टं तत्प्राशयेद्यत्नाद् ब्राह्मणं सर्पिसंयुतम् ॥ अन्वारम्भणिके तस्मै ब्रह्मणे दक्षिणा परा । पूर्णपात्रेण कल्प्या स्यादन्यथा न फलिष्यति ।। पूर्णपात्रं च तत्प्रोक्तं कपिलादिमहात्मभिः । अष्टमुष्टिभवेत्किंचित्तस्य चत्वारि पुष्कलम् ||