SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६४ लौगाक्षिस्मृतिः । संकाशयामीति तदा ऋचा संकाशयेदति । आवामगन्निति ततो वाहौ तौ च विमोचयेत् ॥ अयं न इति मन्त्रोऽयं वाहमोचनकर्मणि । नियुक्तः स्यात्ततः पश्चाच्छम वर्मेति मन्त्रतः ।। चर्मास्तरणकं कुर्याद्गृहान्भद्रानिति स्तवैः । वाचयित्वा च तां पश्चात्स्वयं तामुपवेशयेत् आगमित्यादयो मन्त्रा इमं मेत्यादयस्तथा । गृहप्रवेशकार्येऽस्मिन्प्रधानो होम उच्यते॥ इह गाव इति प्रोक्त्वा चर्मण्युपविशेत्तया । नक्षत्रोदयपर्यन्तं नक्षोषूदितेषु वै॥ वाग्विसर्गश्च कर्तव्यः ततो मौनं भवेत्तयोः । सोमेनेति च मन्त्रेण तदक पुत्रमेककम् ।। निक्षिपेज्जीव पुत्रा सा प्रस्वस्थ इति मन्त्रतः । तस्मै फलानि दद्याश्च एनापत्येति मन्त्रतः स्वकामसिद्विरुक्ता स्यात्तथेयं स्यात्सुमङ्गलीम् । ध्रुवक्षितीति मन्त्रोण ध्रुवं तं दर्शयेश्च वै॥ सप्तर्षय इति ततः दर्शयेत्तामरुन्धतीम् । गृहप्रवेशकर्मास्य होमात्परत एव वै॥ जयादयो भवन्त्येव ब्रह्मणो दक्षिणा भवेत्। वरोऽत्र याजको वध्वा तत्कर्मान्ते वधूः स्वयम् ॥ गां दद्यावृषभं वापि वरायेति द्विजोत्तमाः। केचिदाहुमहात्मानः पुनः केचित्तु तस्य च वरस्यापचितायैव ब्राह्मणायेति वै जगुः । यथाचारं व्यवस्था च कर्तव्या श्रुतिचोदनात् ॥ स्थालीपाकेऽत्रामिरेव देवता स्यात्ततस्तथा । स्विष्टकृत्कथितस्सद्भिर्न कर्तव्या जयादयः॥ स्त्र च्युपस्तीर्य तत्स्थाल्यामभिधार्यावदाय वै । द्विवारमादौ तच्चाभिधार्य स्थाली ततः पुनः॥ मध्यानौ जुहुयादेतत्तद्विवारसमुद्धृतम् । सर्वस्थाली पाकधर्मः सोऽयं ब्रह्मविदीरितः अथाभिधार्य तद्रव्यमेकवारेण तद्धविः। तद्विवारो ध्रु वाकिंचिदधिकं गृह्य तद्धविः॥ द्विवारमभिधायैव जुहुयात्तदुपस्थले । द्विवारमवदानस्यादस्य स्विष्टकृतोऽपि वै ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy