SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तमब्राह्मणकर्मणां सद्यः फलप्राप्तिवर्णनम् अनग्निकत्वमेतस्य न जानीमः कथं किमु । पत्नीको ब्रह्ममेधान ध्यायोऽश्रोत्रियोऽपि सन् ॥ २६३ नापत्नीको ब्रह्ममेधमात्राध्यायी कथंचन । अश्रोत्रियः पुत्रहीनः ब्रह्मोज्झी वेदविक्रयी ॥ अति मौर्खः त्यक्तभार्यः षिद्गो पत्नीक ईरितः । अश्रोत्रियात्सपत्नीकाच्छ्रोत्रियो विधुरोऽधिकः ॥ बहुपुत्रवतो वापि कर्मठादग्निहोत्रिणः । सत्कर्मवत्पुत्रवांश्च प्रतिग्रहपराङ्मुखः ॥ पात्रं न्यूनमपत्नीका च्छ्रोत्रियाद्व दवर्जितः । ब्राह्मणो यदि वेदेन वर्जितोऽपि सदा शुचिः कालसन्ध्यापरो नित्यमपरित्यक्तवह्निकः । वैश्वदेवब्रह्मयज्ञसत्क्रियः सत्सु पूजकः ॥ ब्रह्मण्यो ब्रह्मनिष्ठश्च सततं ब्राह्मणप्रियः । वेदमन्त्रप्रियो नित्यं वेदवित्प्रीति (त) मानसः । विशिष्यते श्रोत्रियाश्च ब्राह्मणः पितृकर्मकृत् । सद्विवाहसुसंप्राप्तसौभाग्यो ब्राह्मणोत्तमः ॥ कुलाभिवृद्धिं लभते तद्विवाहमतश्चरेत् । प्रसङ्गादिदमाख्यातं श्रोत्रियादिनिरूपणम् ॥ तद्योक्त्रमोचनात्पश्चात् रथोत्तम्भनकालिकाः । क्रियाविशेषाः कर्तव्याः परेणाथ च तत्र वै ॥ सत्येनेति च मन्त्रेण रथोत्तम्भनमाचरेत् । योगे योगे द्वयेनाथ वाहौ तत्र सुयोजयेत् ॥ सुकिंशुकेति मन्त्रेण रथमारोहतां वधूम् । वरोऽभिमन्त्रयीतैवोदुत्तरमिति त्रिभिः ॥ तस्या न स्याधिकधनां संपदर्थाभि मन्त्रणम् । नीललोहितेति मन्त्रेण मार्गे सूत्रास्तृणं भवेत् ॥ ये वध्व इति मन्त्राणां त्रयेण गमनं भवेत् । तामन्दसेति च मनुं तीर्थाति क्रमणे जपेत् अयं न इति मन्त्रं तु नौर्यदि स्यात्तदा जपेत् । तामुद्दिश्यैव वरो जपेद्वाह्मणसंवृतः ॥ अस्य पारेति च यजुस्तां तीर्त्वाऽथ जपेत्सुधीः । श्मशानोलङ्घने पश्चाद्यदृतेचिदनुक्रमात् ऋचः षडपि होमे स्युः क्षीरवृक्षाद्यतिक्रमे । ये गन्धर्वाद्वायं जप्त्वा गृहानुत्तरया तया ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy