________________
लोपास्तिः
गोमूत्र मध्यदेशे तु गोमयं पुरतो न्यसेत् । श्रीरं दक्षिणदेशे तु दधि पश्चिमतो न्यसेत् ॥
आज्यमुत्तरदेशे तु ईशान्यां तु कुशोदकम् । तण्डुलेष्टदले पद्म धान्यराशौ न चेत्पुनः अथवा तिलराशौ वा पृथक पात्रेषु निक्षिपेत् । गायत्र्या चैव गोमूत्र गन्धद्वारेति गोमयम् ॥ आप्यायस्वेति च क्षीरं दधिक्रावेति वै दधि ।
२५८
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम् ॥
स्थापयित्वार्चयित्वा च कूर्चेनालोड्य सर्वतः । प्रणवेन समाहृत्य पात्रे महति चैकके ॥ एकीकृत्य च तत्सर्वं प्रणवेनैव केवलम् । अग्नौ प्रतिष्ठिते पूर्वप्रोक्तनैव सुवर्त्मना ॥ हुत्वा तद्धोमशेषं च समाप्य तदनन्तरम् । तदशेषं तया सम्यक्पाययित्वा ततो वरः ॥ अशेषब्राह्मणयुत एतत्कार्याय तां पृथक् । प्रदाय दक्षिणां शक्त्या जयादिं समुपक्रमेत् ॥
ब्रह्मणे च वरं दद्यात् योक्तमोचनतः परम् । इमं विष्यामीति मनुयुग्मेनाशीरुदीरता ॥ नीराजनात्परं सभ्यानां तु पूजां समाचरेत् । तस्मिन्नेव दिने होमात्परतश्वेत्तु सा तथा ॥
गृहप्रवेशात्पुरतो दिनत्रयमतीत्य वै । तां तथा स्नापयित्वाऽथ चतुर्थेऽहनि तत्परम् ॥ पञ्चगव्यं प्राशयित्वा दापयित्वा च गां तथा । गृहप्रवेशकार्याय मध्याह्न तदुपक्रमाम् कुर्यादेव विधानेन ह्युत्तम्भनविधौ तथा । यदि स्यात्सा वधूरत्र क्रमोऽयं च निरूप्यते यत्र स्यात्सा तथा तत्र स्थापनीया न चान्यतः । चालनीया विशेषेण वह्निरक्षणपूर्वकम् पश्चाद्दिनत्रयातीते यत्पूर्वोक्त' तु तन्त्रकम् । तत्सर्वमखिलं कृत्वा गोमूत्रशतकुम्भकैः ॥ दशशान्ति महामन्त्रैः चतुर्थेऽहनि तत्परम् ।
अभिषेकः प्रकर्तव्यः न चेत्सा शुद्धिभाङ् न तु
11
स्नानात्परं तथा तस्या यावकाहार एककः । विशेषेण प्रकर्तव्यो दक्षिणाधेनुपञ्चकात् ॥ तदनन्तरमेव स्यान्न मध्ये | गृहप्रवेश हो माख्यस्तावत्तद्वहिरक्षणम् ॥