________________
मार्कण्डेयस्मृतिः मन्त्रोच्चारणसामर्थ्य विकलश्चाखिलेष्वपि । कर्तव्यबुद्धिमात्रैकमानसस्सिद्ध(द्धि)वर्जितः सक्रियाकरणश्रद्धामात्रस्तत्करणालसः। अलब्धसक्रियादुःखपरितप्तमनाः पुनः ।। दुष्टनिग्रहशिष्टैकपूजनज्ञानवानपि । तत्क्रियाकरणालस्यजामितापरहृत्तदा ॥ सदसज्जनसुज्ञानवानप्यत्यन्तदौष्ट्यतः । कार्यानुगुणदौर्जन्यतत्परो नितरां सदा ॥ सत्पक्षपातरहितः कदाचिदवयोगतः । तत्पक्षपाती भूयश्चाव्यवस्थितचरित्रकः॥
भूयोऽप्यनेकदौर्जन्यसौजन्यद्वयशीलवान् । अप्यस्य गृहिणस्ततुमुपायाः शतशः किलः॥ सन्त्यन्यस्य यतेश्चेत्तु कश्चित्कुत्रापि नास्ति हि । पूर्वोक्तस्यास्य कमपि चैकं वक्ष्यामि सुन्दरम् ।।
द्विमुखोदकपात्रप्रशंसा उपायं तत्र शृणुत भवथाधक्षणेन वै । द्विमुखोदकपात्राम्भः स्थालीगोकर्णतो यदि । सकृत्कृतं त्वाचमनं पावयेदिति पापिनम् । एतजन्मकृताकृत्य शतसाहस्रकोटिहम् ॥ पूर्वैतत्कृतसत्कर्म मध्यवैकल्यवारहम् । कृतापेयसहस्रौघमहाविलदवानलम् ॥ अनेकब्रह्महत्यौघ नियतार्बुदवृन्दहृत् । भ्रूणहत्यावीरहत्या संदोहशतपावनम् ॥ गुरूपत्नीकृतमनस्संगसंगतिवारकम् । सखिस्वामिकृतानेक महद्बोहातिभीतिहम्॥ विश्वासपातकानेकसमुद्रार्बुदतारकम् । विषाग्निदानशतक दूरीकरणसुक्षमम् ।। अपात्रीकरणानेकमहागभ्य(?)तरक्षकम् । जातिभ्रंशाख्य सुमहदेनोवृन्दागसत्पविः॥ यावजीवमहासप्त गंगास्नानफलप्रदम् । संकलीकरणानेककुलकोटिहलाकृति ।। मलिनीकरणाख्यैकमहाविन्ध्यैककुम्भजः। प्रकीर्णकमहापापतमोवृन्ददिवाकरः॥ आजन्मपुष्करमहासलिलस्नानसंमितम् । गंगाब्धिसंगकीलालसहस्रस्नानकारकम् ।। चापाप्रकोटिसाहस्रावगाहनमहाफलम् । ज्योतिष्टोमातिरात्राप्तोर्यामयज्ञफलप्रदम् ॥ वाजपेयमहाराजसूयादिफलहेतुकम् । ऋतुराडश्वमेधाख्यशतस्तोमविभूषितम् ।। सर्वकृच्छ्रफलं सद्यः सर्वत्रतफलप्रदम् । सर्वतीर्थक्षेत्रदेवस्थाने क्षणफलादिकम् ।। एवमादिगुणैर्युक्त तदाचमनमुच्यते । जलप्रवेशास्ययुग्मपात्रे तीर्थानि भूतले ।।