________________
द्विमुखोदकपात्रप्रशंसावर्णनम्
१५
षट्कोटिकोटिसंख्यानि पुष्करादीनि केवलम् । गंगाद्याः सरितः सप्त समुद्रा गिरयस्सुराः ऋषयः पितरोयक्षाः वेदामन्त्राः सत्राशिवाः । स्वयमेव वसन्त्येते पातु तद्धारिणं नरम् प्रजापतिः प्रजाः सर्वा पूर्व सृष्ट्वा ततो विभुः । तमासामुपायज्ञो द्विमुखं पात्रमुत्तमम् ॥
कल्पयित्वा सर्वतीर्थनिलयं देवतालयम् । वेदावासं शास्त्रमूलं यज्ञकृच्छ्रतपःक्षयम् ॥ तत्कृत्वानेन ताः पापाः प्रजास्सर्वा निरीक्ष्य वै । अनेन यूयं तरत पात्रेणेति जगद्गुरुः प्रोवाच किल तस्मात्तु तत्पात्रं तादृशं शिवम् । यत्र वा वर्तते तत्र नैव पावकथा खलुं तद्यमो भगवान् पश्चाच्चित्रगुप्तेन बोधितः । अत्यन्तसूक्ष्ममेतत्तु गुह्यमेव चकार हि ॥ तस्मात्तु सर्वे मनुजाः भूतलेऽस्मिंस्तदादि वै । न जानन्ति किलैतस्य महत्वमतिगोपितम् कालेन मृत्युना भूयो यमदूतैः पदेपदे । अतिगुप्तं प्रतियुगं प्रतिसंवत्सरं पुनः ॥ तस्माद्द्द्विमुखसंपातस्थाल्यास्वीकृत्य तत्पुनः ।
गोकर्णेन क्रियां कुर्युः तेषां नास्त्येव पातकम् ॥
:
तादृशं दिव्यमुदकं खड्गपात्रेण ये पितॄन् । समुद्दिश्य क्रियां कुर्युस्तेषां लोका महोदयाः पितरो नित्यतृप्ताः स्युः गयाश्राद्ध ेन चेद्यथा । शुद्धगोकर्णगजलं न प्राकृतसमं भवेत् ॥ नदीतटाकादिगतं यथा तेन समं भवेत् । न तूद्धृतसमं चेति प्रोचुः किल महर्षयः ॥ द्विमुखाम्भःपात्राभेद्गतं कृत्वाऽथ गोमुखात् । स्वीकृत्य सर्वं यत्कृत्यं कुर्याद्यदि विधानतः ||
सर्व तरति दुष्कृत्यं यः कश्चिद्विजनामकः । ज्ञानाज्ञानैकनिरतः कर्मठाकर्मठः पुनः ॥ श्रद्धाश्रद्धाभक्तिभक्ति विद्याविद्यादिमध्यमः । अमन्त्रमन्त्र तत्तत्वांतत्वाभ्यामपि मध्यमः ॥ श्रुताश्रुताभ्यां नितरां संशयासंशयात्मवान् । निश्वयानिश्चयात्मा च कृतार्थः स्यादनेन वै ।
ज्ञातासुखेन तरति स्वयमेव महामनाः । अज्ञातापरबुध्यैव केवलं शुद्धचेतसा || एकमार्गस्तरत्येव मध्यमस्तु महाजडः । स्वस्यापि निश्चयो नास्ति सर्वकार्येषु संततम् ॥