________________
२५६
लौगाक्षिस्मृतिः तन्मन्त्रान्तं यथास्थानमुपविश्य तया सह । द्वितीयामाहुतिं कर्तु पूर्ववन्निखिलं चरेत् तस्या अर्यमणं मन्त्रः तत्परं पुनरेव वै । प्रदक्षिणेऽपि ते मन्त्राः तुभ्य मग्रादयस्नयः॥ वक्तव्या एव विधिना तत्पश्चात्पुनरेव वै । तेनैव मनुनाश्मानं तामारोप्याथ पूर्ववत्।। उपविश्य यथास्थानं तृतीयामाहुतिं तथा । त्वमर्यमेति मन्त्रेण हुत्वा च तदनन्तरम् ।। प्रदक्षिणं च तैर्मन्नौः कृत्वा च तदनन्तरम् । यथास्थानं तया वध्वा तूष्णीमुपविशेद्वरः।। प्रदक्षिणत्रयेऽप्यस्मिन् ब्रह्मयत्नाद्बहिर्भवेत् । ब्रह्मणस्स बहिर्भावः तत्कालागतयोस्तयोः।। मृत्युःकालस्य शान्त्यर्थे ब्रह्मविद्भिः सुनिश्चितम्।प्रधानहोमकालादौ क्रियमाणे प्रदक्षिणे सहेति ब्रह्मणस्सद्भिर्मन्त्रविद्भिः सुनिश्चितम् । विवाहमागे सर्वत्र लाजहोमे छुपस्थिते कालौ मृत्युः संनिहतौ भरेतां तन्निवृत्तये । सब्रह्म व पटुः साक्षात्तस्माद्ब्रह्मा बहिर्भवेत् यदि कन्या ऋतुमती होमकाल उपस्थिते । प्रभवेत्तु तदा सद्यः शतकुम्भाभिषेचनम् ॥ तूष्णीकं कारयित्वाऽथ पृषदाज्येन तत्परम् । अभिषिच्य व्याहृतिभिः तत्परं पुनरेव वै हविष्मतीति मन्त्रोण स्नापयित्वाग्निसंनिधौ । अन्यवस्त्रद्वयेनैनामलंकृत्य सुमादिभिः।।
.. निशाङ्गलेपनं कृत्वा दर्भमौज्यादिभिश्च ताम् ।
वस्त्रवत्परितः कृत्वा तद्वह्नौ तदनन्तरम् ।। चतुष्पात्रप्रयोगेण संस्कृताज्येन तत्स्र चा । युञ्जानमन्त्रयुग्मेन जुहुयाजनसंसदि । जप्त्वा तन्मन्त्रयुगलं पुनर्जप्त्वा यथाविधि । होमशेष समाप्याथ धेनुमेकां प्रदाय च॥ तं वह्नि दूरतः कृत्वा पञ्चगव्य विधानतः । पञ्चगव्यं प्राशयेच्च तत्क्रमश्चात्र वक्ष्यते ॥
गोमूत्र:ताम्रवर्णायाः श्वेतायाश्च च गोमयम् ।
पयः काञ्चनवर्णायाः नीलाया एव वै दधि ॥ घृतं तु सर्ववर्णायाः सर्वं कपिलमेव वा । अभावे सर्ववर्णानां सर्ववर्णेष्वयं विधिः॥ इरावतीदं विष्णुर्यन्मनास्तोकेति शं न वि । अग्नये चैव सोमाय गायच्या तदनन्तरम्।। प्रणवेन ततः कुर्यात् स्विष्टकृञ्च ततः परम् । गोमूत्र फलमेकं तु अङ्गुष्ठाधं तु गोमयम् ।। क्षीरं सप्तफलं चैव दधि त्रिफलमुच्यते । घृतमेकफलं प्रोक्त पलमेकं कुशोदकम् ।। पूर्व कृत्वा देहशुद्धि प्राजापत्य व्रतेन तु । पञ्चगव्यं पिबेच्चैव ब्राह्मणानामनुज्ञया ।