________________
साप्तपदीनवर्णनम्
२५५ उद्वाहः होमसंकल्पं प्राणायामपुरस्सरम् । कुर्याद विधानेन सुलग्ने विप्रसंनिधौ।। अमीन्धानादिकर्म घृतभागान्तमेव तत् । कृतान्ब्रह्मपुरस्कार चक्षुरन्तं समापयेत् ॥ सोमः प्रथमयुग्मेन तामेतामभिमन्त्रयेत् । गृभ्णामीति महामन्त्रचतुष्टयत एव वै॥ तस्याः पाणिं तु साङ्गुष्ठं गृह्णीयादग्निसंनिधौ । उत्थायाथ तया सार्धमग्नेरुत्तरभागके एकमित्यादिकैर्मन्नः वरस्सप्त पदानि वै । तद्विधानेन शनकैः कारयीतैव सूनृतात् ॥
अन्तात्पदात्तु तास्सर्वान्प्रजपेदत्र वै मनून् ।
अग्निं प्रदक्षिणं कुर्याद्ब्राह्मणं चापि दक्षिणे ॥ विद्यमानं यथास्थानमुपविश्य कटेऽपि वा । एरकायां भद्रपीठ अलंकारासने शिवे ॥
सोमायेत्यादिभिर्मन्त्रीः प्रधानं होममाचरेत् ।
अमीन्धनादिकार्याणां करणं ऋत्विजाथऽवा ।। सर्वत्र शक्यते कर्तुं तद्धोमश्च तथा पुनः । शक्यते शास्त्रवर्गेण याजमानादिकं परम्॥ उद्दश्य त्यागजालं तु कर्तुरेवाखिलेष्वपि । वैदिकाख्येषु तन्ोषु चैवं धर्मज्ञनिर्णयः ।। प्रधानहोमात्परतः तामेतामघचाश्मनि । वह्नौ तूत्तरभागस्थे यातिष्ठेति च मन्त्रतः अरोपयीत च वरः स्वकरेणैव तां वधूम् । यथावदेव च पुनरुपविश्यासने शुभे॥
अभिघार्याञ्जलौ तस्याः तथा लाजांस्तथाज्यतः। लाजान्द्विवारं तान्पश्चादावपेच्चापि पूर्ववत् ॥ (......) स्य पुनस्सोऽयें स्वहस्ताभ्यां विधाय' तान् ।
इयं नारीति मन्त्रोण जुहुयाद्विधिनैव वै। केचिदत्र महात्मानस्तस्या सोदर्य एव वै। लाजावपनकर्ता स्यात्तद्धोमे समुपस्थिते ।। इत्येवमूचुर्धर्मज्ञास्ते कल्याणनिदानगाः । तस्मात्तु बहवो लोके तद्धोमसमये खलु ।। तत्सोदयं समाहूय तान् लाजास्तन्मुखेन वै । तदञ्जलौ प्रयत्नेन वापयन्ति ततः पुनः।। तस्य पूजां सुमहतीं वस्त्रभूषणचन्दनः। प्रकुर्वन्ति श्रुति प्रोक्तः मन्त्रैरपि विशेषतः ।। तद्धोमानन्तरं पन्या वहिं कुर्यात्प्रदक्षिणम् । तत्प्रदक्षिणकाले तु तुभ्यमग्रमनुत्रयम् ॥ जपित्वैव विधानेन पुनरातिष्ठ मन्त्रतः। तमश्मानं पूर्ववञ्च वधूमारोप्य पाणितः ।।