SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ लौगाक्षिस्मृतिः कल्पयित्वाञ्जलिं तत्राभिधार्य स्वेन तेन व । पयसा तण्डुलान् क्षिप्त्वाभिघातां स तण्डुलान् ॥ सोदकं कलशं तत्र चूतपल्लवरञ्जितम् । गन्धाक्षतालंकृतं च निक्षेपेत्तद्विधानतः। एवमन्यो वरस्यापि तत्पयस्तण्डुलाक्षतैः । कृत्वाऽखिलं तदुपरि शान्तिरस्तीते तान्मनून् । एकादश जपेत्सम्यक् क्रमेणैव तदा वरः। तत्क्रमं च प्रवक्ष्यामि शान्तिः पुष्टिः ततः परम् ।। पुष्टिदृष्टि स्तथा भूयस्त्वविघ्नायुष्यको तथा । आरोग्यं तत्परं स्वस्ति शिवं कर्म तथा पुनः कर्मवृद्धिः पुत्रवृद्धिः वेदवृद्धिस्ततस्तथा । समृद्धिरपि शास्त्रस्य समृद्धिर्धनधान्ययोः॥ प्रत्येकमस्त्विति वदेदेतेषां मन्त्रसिद्धये । पदानामस्त्विति ब्रूयात्केचिदेतान्मनून्परान् । ऊचिरे द्वादशेत्येव त्रयोदश परे जगुः। पुनरेको महामन्त्र सर्वसिद्धिकरः शिवः॥ प्रवाच्य इति तज्ज्ञास्ते जगदुब्रह्मवादिनः । दम्पत्योर्जन्मनक्षो सलग्ने सगृहे तथा॥ - ससोमेन क्रियेतां वै इत्युक्त्वा तत्परं पुनः। प्रजापतिः स्त्रियां चेति षण्मन्त्रानपि तान्क्रमात् ।। जपित्वान्तेप्यसौ स्थाने प्रजामेकाम इत्यथ । समृद्धयतामिति वदेत्पर्याये प्रथमे किल॥ एवं द्वितीयपर्याये वधूद्रव्येण पूर्ववत् । सर्वं कृत्वा स्त्रियां कुर्यात्तामेतां निखिला पराम् मन्त्रोक्तिस्सा वराधीना न वध्वा इति सूरयः । द्वितीये च तृतीये च ह्यसावित्यत्र तत्पदे ।। पशवश्चापि यज्ञश्च भवतामिति सा श्रुतिः। सर्वं चतुर्थपर्याये तत्तद्रव्येण तौ वरम् तूष्णीममन्त्रकं सवं कृत्वा तानक्षतांस्तुतौ । परस्परं निक्षिपेतां यथारुचि ततः परम्।। यथोत्साहं यथाशक्ति तण्डुलानां तयोरति । अवकीरणमित्यूचुः शुभकर्मविदोऽनघाः महर्षयो महात्मानस्तदनन्तरमेव वै । पश्चान्मुखीं वधू गृह्य स्वहस्तेन वरस्तदा । पूषा त्वेतो नय त्वेति मन्त्रोणाभ्यग्न्यानीय वै । अग्नेः पश्चाद्यथा स्थानमुपविश्य तया सह ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy