________________
२५२
लौगाक्षिस्मृतिः तच्छ्र त्वाऽथ वरः पश्चाद्वहिब्राह्मणसंनिधौ।
वदेन्नातिचरामीति स्वस्ति प्रतिवचो वदेत् ॥ तत्परं फलताम्बूलहिरण्याभरणादिभिः। शालग्रामेण च गवा धरणी क्षेत्रमन्दिरैः॥ संगृह्यावरणाघाख्यं दूरीकुर्यात्पटं तदा । जीरकांश्च गुडं मूर्ध्नि निक्षिपेतां वरौ तदा ॥
देवस्य त्वा मनुं जप्त्वा तन्मन्त्रान्ते ततः पुनः ।
राजावेत्यादिकं चोक्त्वा प्रतिगृह्णातु तत्परम् ॥ प्रजापतये कन्या ( ... ... ... ...)। तेनेत्यादि भवेत्तत्र तत्पूर्वं वेति केचन ॥
तन्मुहूर्ते सुमहति कन्यां दृष्ट्वा परः स्वयम् । अभ्रातृघ्नी जपं कुर्यादवघोरेत्यवलोकयेत् ॥ अत्रैव वरवध्वौ तौ आवाभ्याममुतः परम् ।
कर्तव्यानि तु कर्माणि प्रजाश्च विधिनैव वै॥ समुत्पादयितव्यास्स्युरित्येवं तत्क्रमं विदुः । ( ... ...
अथ दर्भ समुद्धृत्य चेदं मन्त्रोण वै वरः।
तस्या वधाः समूढाया भ्र वोरन्तरभागकम् ।। संमृज्याथ प्रतीचीन निरस्य च जलं स्पृशेत् । रोदनादि निमित्तेषु जातेषु यदि वै वरः।।
जीवां रुदन्तीति मनुं जपेत्तदोषशान्तये ।
युग्मान्मन्त्रवतो विप्रान् तत्स्नानीया(द)द्भ्य एव वै॥ प्रेषयेप्रेषविधिना अर्यम्ण इति मन्त्रतः । दार्भमेण्वं निधायाथ तस्याः शिरसि तत्र च॥
खेनसः खेन मन्त्रेण युगच्छिद्रं तु दक्षिणम् । तस्मिन् समं प्रतिष्ठाप्य शंते मन्ोण कर्बुरम् ।। अन्तर्धाय च तच्छिद्र हिरण्येत्यादिकैः परैः । पञ्चभिर्मनुभिः सद्भिः स्नापयित्वा सकृत्ततः ।। परित्वेति च मन्त्रोण वासोभ्यान्तां विधानतः । अहताभ्यां तथाच्छाद्य चाशासानेति मन्त्रतः ।।