SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५१ कन्यादानवर्णनम् साक्षाद्गो मधुपर्कोऽयं निन्दितः शास्त्रवेदिभिः । मधुपर्कस्य कालोऽयं विवाहः प्रथमो मतः॥ अनूचानागमः पश्चात् श्रोत्रियस्यागमः परः । श्वशुरस्यागमो राज्ञः वत्सराल्परतः खमु प्रायेण महता पूर्व कन्यादानस्य चोदितः। मधुपर्को महाभागै रयमेव महत्पथः ।। कन्यादानात्परं सोऽयं केषां चित्खलु केवलम् । आचारो यते तस्माद्विकल्प इति तं विदुः॥ कन्यादानात्पूर्वमेव कन्याव्रतमुखादिकम् । सत्यो महत्यस्तज्ज्ञास्तास्तदम्बाधास्तु तत्करात् ॥ प्रकुर्युरिति धर्मज्ञ समयो वैदिकैरपि । समनुष्ठित एवायं तद्वतं चेदमुच्यते॥ गौरीपूजा शचीपूजा सर्वा अङ्गुरदेवताः। यास्तासामत्र पूजा च तत्तन्नाम पदैः परैः। चतुर्थ्यन्तैविधानेन सा कार्याऽऽसनमूलकैः । निशाबिम्बद्वये गौरि शच्या ते तत्र कल्पयेत् ॥ पाचार्ष्याचमनीयादिषोडशैरुपचारकैः । प्रदक्षिणनमस्कारैः स्तोत्रैमङ्गलकारकैः ॥ अर्चयित्वा ततो भूयो मौनकाष्ठेन यत्परम् । तया यत्कुरुते ध्यानं तत्कन्याव्रतमुच्यते कन्यावतात्परं कन्यादानसंकल्प इत्यपि । केचिदाहुः महात्मानः तत्प्रातरिति केचन तत्परां तादृशीं कन्यां पल्यादाय सहैव वै। स्वयं प्राङ्मुखमासीनः पश्चिमाभिमुखस्य तु ॥ वरस्य वस्त्राभरणविहितस्य पुरोऽस्यवै। स्वस्य चाभ्य(भ्युप) विष्टस्य वेणुद्वन्द्रस्थितिर्भवेत् तद्वधूवरयोस्तत्र पादद्वन्द्व स्थितिर्भवेत् । पूर्ववत्त्पुनरुचार्य स्वगोत्रप्रवरे तदा ॥ प्रपितामहपूर्वेण नत्री पौत्री सुतां च ताम्। लक्ष्मी स्वरूपिणी कन्यां लक्ष्मीनारायणस्य वै॥ खरूपिणेऽद्य ते भूयो वरायेति च तत्परम् । प्रजासहत्व कर्मभ्यः इत्येवं प्रतिपादयेत् ।। प्रतिपादयामीति वदन् धर्मे चार्थे च तत्परम् । कामेनाचरितव्येति कर्ता वरमुदीरयेत् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy