________________
२५०
लौगाक्षिस्मृतिः महादानान्तत्तिं कन्यकादानमुत्तमम् । करिष्यामीति संकल्प्य तस्यै कुर्यात्ततः परम् मधुपर्कमहापूजां तद्विधानेन पण्डितैः। कन्यादानात्परं वापि पूर्व वा तं यथाविधि
कुर्याद्विवाहे जामात्रे सम्यगभ्यर्च्य शक्तितः।
संकल्पानन्तरं तत्रायं ते कूर्चा इति स्वयम् ।। कन्यादाता स्वयं दद्यात् कूचं दर्भमयं शिवम् । वरोऽथ तत्र मन्त्रेण राष्ट्रत्युपविशेत्ततः।
आपः पाद्या इति प्रोक्त आपः पादावनेजनीः।
इति मन्त्र जपेत्सम्यक् पश्चात्कर्ता स्वयं वरम् ॥ पादौ प्रक्षाल्य पूर्व तु दक्षिणाधिमुखेन वै। पत्नी प्रदत्तनीरेण चन्दनेनार्चयेच्च तौ॥
तदा वरो मन्त्रयेच्च मन्त्रेणानेन मन्त्रवित् । आमागन्नित्यपि तदा विराजो दोह इत्यपि । तच्छिष्टसलिलं पूर्व नीयमानं जपेत च।
समुद्र(द्रादि)मिति मन्त्रेण मत्परोऽन्तं वरो जपेत् ।। मधुपर्क त्रयोचारे तस्य विद्यामनुं जपेत् । आमागन्निति मन्त्रं चामृतोपेति मन्त्रतः॥ तत्पनीप्रत्तसलिलं पश्चिमाभिमुखस्स्थितः। पिबेदेव वरो हस्तात्तदाचमविधानतः॥ यन्मधुनो मधव्येन मधुपर्क सकृत्ततः। सकृपाश्य ततः तूष्णीम् द्विवारं भक्षयेत्परम् ॥ उत्तरेणाऽथ यजुषा पुनीरं वरः पिबेत् । कन्यादाता गौरि त्युक्त गौरस्यप मर्नु जपेत्
ममेत्यत्र स्वनाम्नो वै षष्ठ्यन्तोचारणं भवेत् ।
तदाऽमुष्येत्यत्र पश्चात्कन्यादातुश्च नाम तत् ।। षष्ट्यन्तोश्चारणं कुर्यास्त्वयमेव वरस्तदा। अग्निः प्रवाश्नातु मन्त्राणां सर्वेषां केवलं जपः ओमुत्सृजत पर्यन्तं कलौ कार्यस्समप्रकः । सिद्धमन्नं भूतमिति पश्येदित्यपि केचन ॥
प्रोचुर्महान्तो विबुधाः तदन्नस्य निरीक्षणम् । वरस्य विधिरित्येव सा विराडिति तत्परम् ॥ ओंकल्पयत पर्यन्तं जपेदिति विपश्चिताम् । आचारः सुमहानेवं तस्यान्ते सुमहानयम् ।।