________________
कन्यादानवर्णनम्
प्राणानायम्य विधिना देशकालौ प्रकीर्त्य च । तिथिं वारमृतुं मासं पक्षेण च समन्वितम् ॥
समुच्चार्य प्राकृतेऽस्मिन् न द्याहं स्त्रियमुद्वहेत् । इति संकल्प्य तत्पश्चाद्रक्षाबन्धनमेव च ॥ कृत्वा यज्ञोपवीतं तद्धृत्वा तन्मन्त्रतस्ततः । चतुरो ब्राह्मणान्नत्वा मदर्थं यूयमद्य वै ॥ कन्यां वृणीध्वं मद्योग्यां यद्बन्धुषु महोन्नताम् । इत्युक्तवा तान्ततो मन्त्रावादिमौ प्रेषधर्मतः ॥ उक्त्वा तान्प्रेषयेच्चापि प्रेषिता स्तेन तेऽपि वै । गत्वा कन्याप्रदातारं प्राङ्मुखं समवस्थितम् || स्वयं तदुन्मुखो भूत्वाऽथवा ते ब्राह्मणः स्वयम् । उदङ्मुखं प्राङ्मुखं च प्रत्यङ्मुखमथापि वा ॥
समुद्दिश्य वदेयुर्वे प्रपितामहपूर्वकम् । नको पौत्राय पुत्राय चायुष्मै च सशर्मणे ॥ साक्षाच्छवीन्द्ररूपाय गौरीशंकररूपिणे । वाणीभाषा स्वरूपाय लक्ष्मी गोविन्दरूपिणे नानोपेतामिमां कन्यां नप्त्री पौत्रीं च पूर्ववत् । सर्वमुक्तवा तत्क्रमेण वदेयुस्ते वृणीमहे इत्युक्त तैरथ पिता कन्याया स तु चेतसा । चाभ्वल्यरहिते नैव संमत्या स्वजनस्य च निखिलस्य कस्य मित्रवर्गस्य कृत्स्नशः ।
२४६
वृणीध्वमिति संभाष्य तस्मै दास्यामि संप्रति ॥
इत्युक्तवैव ततस्तेभ्यो दत्वा ताम्बूल चेलके । प्रेषयित्वा तमामन्त्रय स्वस्तिवाचनपूर्वकम् सर्वमङ्गलवाद्यौघ चिरण्टीगानपूर्वकम् । अभ्यञ्जनस्नानमुखं कारयित्वा च शास्त्रतः ॥ अलंकारासने रम्ये स्थापयित्वा स्वयं ततः ।
पन्या समुपविश्यैव प्राणानायम्य वाग्यतः ।
महासंकल्पमुच्चार्य मद्व ंश्यानां मया सह । दशापरेषां पूर्वेषां पितॄणां मुक्तिहेतवे ॥ चन्द्रमण्डलपर्यन्तं यव संख्याभिरेव वै । सूर्यमण्डलपर्यन्तं तिलसंख्याभिरेव च । सर्षपाभिस्सप्तऋषि लोकपर्यन्तमित्यपि । वालुका ध्रुव लोकाख्यपर्यन्तं ब्रह्मलोकाप्तिसिद्धये ॥