________________
२४८
लौगाक्षिस्मृतिः शकुनानि परिक्ष्यादौ विचिन्त्य च पुनः पुनः । निमित्तान्यपि दिव्यानि हृदयाह्वादकान्यपि ॥ दृष्ट्वा विवाहयेत्कन्यां चापल्यात्वरितेन च । व्यामोहं गमयेन्नैव न तल्लमो भवेदपि । बन्धुत्वेनागतान् दूरात्कन्यां दातुं समुद्यतान् ।
वयोऽधिका कार्यकारा लोभात्तां न तु विश्वसेत् ॥ दूरबन्धून्प्रयत्नेन चिरकालविचारतः । वचनादिष्टबन्धूनां संबन्धाय परिग्रहेत् ॥ बन्धुत्वेनागतान्दृष्ट्वा पुरस्कुर्यादतीव च । सुप्रसन्नमुखो नित्यं पूजयेदोजयेदपि ।।
शक्त्योपकारं कुर्याच दानमानार्हणादिभिः । (१) न च क ध्यात्तिरस्कुर्यान्न तान्सुतः ।। मिथ्यावाझ्यानि तैज्रयान्नावमन्यन्न भीषयेत् ।
पूर्णकामान्प्रकुर्वीत सत्यां शक्तयां तदर्थितान् ॥ सर्ववस्तुविशेषांश्च प्रदद्यादापयेत्तथा । यस्य गेहान्निवर्तन्ते पूर्णकामाः समागताः।।
तस्य श्रेयः संपदश्च वर्धन्ते शुक्लचन्द्रवत् । अभ्यागता यस्य गेहादर्थिनो बान्धवाः स्वकाः॥ मित्रादयो ब्राह्मणा वा तस्य सा श्रीविनश्यति । निमित्तानि मनोज्ञानि पश्यन्विप्रैस्सुहृद्गतः॥ कन्यादातुर्गृहं गत्वा बन्धुभिर्मामवासिभिः । पुण्याहवाचनं मन्नौः कारयित्वा विधानतः।। अनुहा'म'मन्त्रस्तान् स्वयं जप्त्वा तदा तदा ।
दर्शने दुनिमित्तानां वाचं यच्छन्द्विजन्मभिः ।। स्वस्त्ययनमिति मन्त्रमर्थ होमुचमेव च । शिवं शिवमिति यजुः जपन्वा जापयेदपि ॥
कल्याणादौ विशेषेण वाचयंस्तद्गृहं ब्रजेत् । गृहाबहिस्स्तस्य पादौ प्रक्षाल्याचम्य सिद्धये ॥