________________
वंशाभिवृध्यर्थं वरणीयकन्यालक्षणवर्णनम्
२४७ अनुपेतोऽप्ययं पुत्रः पितृकर्मणि संगते । ज्येष्ठत्वं समवाप्नोति कनिष्ठत्वं न विन्दति ।।
औरसे सति दत्तस्तु स्वकर्तृत्वेन पैतृकम् ।
क्रियां यदि चरेन्मोहात्सा क्रिया विधिशून्यतः ।। कृतप्राया न भवति पुनः करणमर्हति । यावत्पुनः क्रिया पुत्र औरसेनाचरेजडः ॥ पितृक्रियां स्वकर्तृत्वधर्मेण जनितश्रमः। पिता तावत्तस्य नूनं प्रेतत्वेन प्रपीड्यते । अयं तावत्सूतकस्य यावत्तत्कर्मशास्त्रतः। करोति विधिना भक्त्या सर्वकर्मसु गर्हितः तस्माद्धर्मेण विवहन् धर्मज्ञः स्वकुलोद्भवैः । स्वबन्धुभिः स्वमित्रैश्च सर्व शास्त्रविदुत्तमैः ।। समालोच्य प्रयत्नेन सर्वधर्मविवृद्धये । कन्यका सत्कुलोत्पन्नां सुलक्षणसमन्विताम् ।। सर्वावयवसंपूर्णा दृढाङ्गां रोगवर्जिताम् । असमानार्षगोत्रां च विवहेच्च यवीयसीम् ।
वाग्दत्तां कार्य सिद्धयर्थमन्यं नैवा ततादिभिः । गुप्तां दुर्लक्षणभिया विकटा ह्रस्वकेशिनीम् ॥ अतिनीचामतिकरां निष्ठूरोक्तिमतीमिति ।
अतिरक्तामतिजवामति भाषणलोलुपाम् । कराली कालिका रुग्णां पलितां रक्तमूर्धनाम् । अत्यन्तलीलापरमां चरमां चण्डनिष्ठुराम् कुनखीं श्वेतां निद्रामदसमाकुलाम् । लोलुपां मददिग्धाङ्गी महारतिपरायणाम् ।।
नित्य दुःखमुखीं भीरु वक्रांङ्गी वक्रनासिकाम् । अतिदुर्गन्धवदनां भीमदन्तां भयङ्करीम् ॥ कपूय कण्टागरला चटुलां नित्यहासिनीम् । अतिपारुष्य परमां महामालिन्यचेतसाम् ।। मार्जालनेत्रां पृथुलभीमौष्ठ पुटनासिकाम् ।
संकां सांकरिकां जाड्यमालिन्यपरमां खलाम् ।। दीर्घरोमाङ्किततर्नु शार्दूलखरदुर्धराम् । कलिशीलां विशेषेण मतिमान् संपरित्यजेत् ।।
पालिका स्वनुजां कुध्र वर्षकारी विहाय च । वरयेत् कन्यकां धीमान् स्वीयवंशाभिवृद्धये ॥