________________
२४६
लौगाक्षिस्मृतिः व्रती न ब्रह्मचारी स्यान गृही.न वनी यतिः । अतस्तस्मिन्दिने यत्नाद् द्वितीयाश्रममाचरेत् ॥ सती ज्येष्ठे विना तं वै हित्वा स्नात्वा स्वयं त्वरन् ।
विवहेन्न तु तूष्णीकं सोऽनर्थस्सुमहान्भवेत् ।। परिवेत्ता भवेत्तत्र तज्ज्येष्ठस्तत्कनीयसः । परिवित्तिरिति ज्ञेयः तावुभौ सेवकर्मणाम्।।
अनहीं द्विजवन्देषु निन्दितौ कुत्सितावपि ।
ज्यङ्ग नेवगतौ पापौ पतितो पापिनौ ततः ॥ वर्जनीयौ भवेतां वै प्रायश्चित्तशतैरपि । शुद्धात्मानौ भवेतान्न यावदाचन्द्रतारकम् ।। कृत्यमेतदति करं प्रायश्चित्तबहिष्कृतम् । दत्ते वणिनि तिष्ठेत्तु यदि जातस्तदौरसः॥ तस्यैव ज्येष्ठता तस्य विवाहानन्तरं परम् । दत्तस्य कार्य उद्वाहः नोचेत्तस्य दुरात्मनः
न दोषो जायते धोरः प्रायश्चित्ताक्षमो महान् ।
तदुष्टं परिवित्तत्वं परिवित्तित्वमेव च ।। मौञ्जी विवाहयस्तैः तत्पूर्वकरणत्वतः । उभयोर्जायते नूनं तयोज्येष्ठकनिष्ठयोः॥ अनुजोद्वाहतः पश्चात्तज्ज्येष्ठः करपीडनम् । स्वस्य त्यक्त्वैव तूष्णीकं यदि त्तिष्ठेत्ततःपुनः
प्रायश्चित्तशतैः स्वस्य गृहोल्का तुलितोऽपि वा । विप्रश्रेणी निवासाय विप्रैस्संचारिणाय वा ।। अर्हामासो भवेत्सत्यं न चेद्वच्मि ततः पुनः।
श्मशानोल्का समानस्स्यानामावासा क्षमस्तराम्॥ प्रभवेदेव स ज्येष्ठः कारणान्तरकल्पनात् । विवहेयदि पापात्मा कुलनिर्मूलकारकः॥ कपालपण्डालसमः न प्रामस्थानमर्हति । अयं विधिः कन्यकानां सम इत्येव सर्वतः सर्वेषामपि वर्णानां धर्मज्ञैः समुदाहृतः । यमयोः पुत्रयोर्मध्ये पूर्व जातः कनीयसः।।
पश्चाजातस्तु विज्ञेयो ज्येष्ठः कर्मसु सत्कृतः ।
आहिताग्निः सोमयाजी क्षुद्रजिहिजिन्महान् ॥ जाताष्ट पुत्रोपाषा अपि दत्तः स्वयं सुधीः । जननादौ रसस्यायं कनिष्ठत्वं प्रपद्यते ।