________________
नानानुवाकानां ऋषिवर्णनम् तैत्तिरीयके चतुश्चत्वारिंशत्काण्डवर्णनम् २४३
जुष्ट प्राणादिको प्रश्नावुपहोमान्प्रचक्षते । आहुः सूक्तानि विबुधाः पीवोन्नमिति पाठकम् ।। अञ्जन्ति त्वामिति प्रश्नः पशुहोत्रमुदाहृतम् ।
स्वद्वीत्वा सर्वा नग्निर्न इति प्रश्ना यथाक्रमम् ॥ सौत्रामण्यच्छिद्रनक्षत्रेष्टयस्सामुदाहृताः । आद्योऽके पश्चमस्य पाठकस्यादिमा अपि ।
अनुवाकालयो नक्षत्रेष्टिकाण्डतया मताः।
सौत्रामणेः शेष उक्तोऽनुवाकोऽयं युवस्विति ॥ अष्टौ तु काठके हव्यवाडादीनां प्रचक्षते । संज्ञानमिति सावित्रो नाचिकेतस्ततः परः।। प्रोको ब्रह्मानुवाकश्च चातुहोत्रिय ईरितः। प्रोक्तो वैश्वसृजोऽयं चेत्यनुवाकचतुष्टयम् ।।
तेषां चतुर्णा काण्डाना हव्यवाड् ऋषिरीरितः।
तुभ्यं देवेभ्योऽनुवाको दिवःश्येनेष्टयस्तथा ॥ तपसा देवेभ्य इति त्वपापा उदिता बुधैः । ऋषयो वैश्वदेवास्तु काण्डयोरनयोर्मताः।। भद्रं कर्णेभिरित्युक्तः प्रश्ने अरुण केतुकः । अरुणाः काण्ड ऋषयस्तस्य तत्रैव कीर्तिताः
शं न इत्यनुवाकानां द्वादशानां मनीषिभिः। साहित्यो देवताः उपनिषदः सं प्रकीर्तिताः॥ उत्तरेषां त्रयाणां तु वारुण्यस्समुदीरिताः। प्रपाठकस्याम्भसीति याज्ञिक्यः प्रतिपादिताः॥ खाध्यायब्राह्मणं प्राहुः सहवा इति पाठकम् ।
ब्रह्मा स्वयं भूः स्वाध्याय ब्राह्मणस्यर्षिरुच्यते ॥ प्रश्नः पुरुषमेधस्तु तृतीयाष्टक तुर्यकः । राजसूयादिका वैश्वदेवाः काण्डास्तु पोडश ।
एवं चतुश्चत्वारिंशत्काण्डानां तैत्तिरीयके। महाशाखाविशेषेऽस्मिन् कथिता ब्रह्मवादिभिः॥ सर्वेषामपि चैतेषां काण्डानां तु पृथक पृथक् । उत्सर्जनोपक्रमयोः काण्डपि तं प्रधानकम ।।