________________
२४४
लौगाक्षिस्मृतिः कृत्वा पतिं च सदसः कुर्यात्तस्मिन्द्वितीयकम् । सूक्तोपहोमांश्च तथा कुर्वीतैव विधानतः उपस्थानं ततः कुर्यादग्ने व्रतवदादिभिः। सर्व निवर्तयेत्कर्म जयादिकसमन्वितम् ।। एतद्वतं महानुष्ठानात्परं निखिले परे । अधीत्य वेदं वेदौ वा वेदान्वा वेदमेव वा। स्नानं कुर्याद्विधानेन गुर्वनुज्ञाप्रपूर्वकम् । तदुत्तरायणे कार्य माघादिष्वेव केवलम् ।।
मुख्येषु कुर्याद् गौणेषु न कदाचन तां क्रियाम् । शुभे दिवसनक्षत्रे चन्द्रताराबलान्विते ।। स्नानं करिष्येति विप्र समीपे प्राग्विचक्षणः ।
सूर्योदयस्य गोष्टं तमन्तर्लोम्ना स चर्मणा ।। कृष्णाजिनेनापिधाय मौनी तिष्ठेदतन्द्रितः । सेवेत नातपं तस्मिन् दिवसेऽथविचक्षणः
मध्याह्न समिधाग्निं तं प्रतिष्ठाप्य विधानतः ।
पात्रप्रयोगकाले तु समित्सूत्रादि वस्तु तत् ॥ यथाहं प्रयुनत्त्यत्र चैकमेकं क्रमेण वै । तानि सर्वाणि पात्राणि मानुषाणि यतस्ततः ।।
पश्चात्तदाज्यभागान्ते इम स्तोममर्हतः।
पालाशसमिधं वह्नौ निक्षिपेदेव तां स्थिताम् । पश्चादग्नेरुपविश्य चेरकायां कटेऽपि वा । त्रियायुषेति मन्त्रेणाभिमन्त्र्यक्षुरमेव तत्।। वस्त्रे प्रदद्याद्यजुषा ततः केशनिधनान्तकम् । समानमेव कथितं जघनार्धे व्रजस्य वै॥ स्व मेखला मन्त्रधृता विस्तस्य ब्रह्मचारिणे । दद्यात्तद्वारणार्थाय तां गृह्याथ सवर्ण्यपि॥ इदमहमिति मन्त्रेण दर्भस्तम्बेऽथवा तथा । उदुम्बरस्य मूले वा उपगूहेत तामथ ।।
आपोहिष्ठेति तिमृभिः हिरण्येति च मन्त्रकैः ।
स्नापयीत विधानेन स्नानानन्तरमेव वै॥ औदुम्बरेण काष्ठेन कुर्याद्व दन्तधावनम् । उद्वर्तनं स्नानीयेन पुनः स्नानं विधानतः ।। कृत्वा वासोहतं नूनं सोमस्येति च मन्त्रतः। परिधाय प्राङ् मुखतः चन्दनं परमोत्तमम्
सुगन्धरम्यं नूनं च नमो ग्रहमुखैः परैः । मनुभिर्देवताभ्योऽथ गन्धं दत्वा द्विजन्मनाम् ।।