________________
२४१
दशानुवाकानाम्वर्णनम् स ब्राह्मणानि सानुब्राह्मणान्यपि यथाक्रमम् ।
सौम्याख्यानि तु काण्डानि कथितानि महात्मभिः ।। विशदायात्र वै तेषां पुनस्सम्यङ् निरूप्यते । आप उन्दन्तु देवस्य प्रश्नद्वितयमध्वरः ।। ब्रह्मसंपवमानोऽनुवाकावप्यधरौ मतौ । सजोषा इन्द्रपर्यन्ता आददे प्रमुखा ग्रहाः ।। उदुत्यमनुवाकान्त्रीन् दक्षिणामूचिरे बुधाः । ब्राह्मणत्रयमेतेषां षष्ठः काण्ड उदाहृतः ।।
सत्रात्प्राचोऽनुवाकांस्त्रीन पितब्राह्मणं विदुः।
उभये वै प्रश्न आद्यः पञ्चमौ षष्ठसप्तमौ ॥.. अग्नेः प्रपाठके तुर्यमन्तिमं चतुरस्तथा । अध्वरब्राह्मणं प्राहुरनुवाकानिमानपि ॥
त्रिवृत्स्तोम इति प्रश्नः समाख्यः परिकीर्तितः ।
नमो वाचे तदूवौं तु प्रश्नो शुक्रिय तद्विधी ।। पाकयज्ञमिति प्रश्नः सप्तमाद्याः पडीरिताः। अनुवाका वाजपेयाः तद्विधीन्प्रथमेष्टके प्रश्ने तृतीये देवा वै यथेत्यष्टौ प्रचक्षते । एवं नवोदितान्काण्डान् सौम्यानाहुर्मनीषिणः
आग्नेयानां च काण्डानां क्रियतेऽथ निरूपणम् ।
अग्न्याधेयं त्वग्निहोत्रमग्न्युपस्थानमेव च ।। महाग्निचयनं तद्वत् युञ्जानादिकमप्यति । सावित्रचयनं चैव नाचिकेताख्यकं तथा तथा वैश्वसृजाख्यं च पुनरारुणकं ततः । तद्ब्राह्मणमनुब्राह्मणश्चापि क्रमतोदितम् ।। आग्ने काण्डजालं स्यावेदमध्य गतं तथा । स्पष्टार्थमधुना भूयः सम्यगेव निरूप्यते आधानं कृत्तिकास्वादि प्राङ् नवेत्यनुवाकतः । प्रथमे पुनराधानं काण्डे पञ्चमपाठके ।। आद्यानुवाकाश्चतुरः तथैव प्रथमेऽटके । तृतीय पाठकद्यानुवाकं च विबुधा विदुः ।। उपप्रयन्त इत्याद्यमग्न्युपस्थानमुच्यते । ममान्तमग्निहोत्रस्याङ्गिरसः पाठको विधिः।। उदस्यादनुवाको तच्छेप तन्निष्कृतित्वतः । अग्निश्चतुर्थकाण्डोऽनुवाकावायुष आदिमौ
तस्य शेषतया प्रोक्त तस्यैकं ब्राह्मणं बुधाः ।
___ आदितश्चतुरः प्रश्नानाहुः पञ्चमकण्ङजान् ॥ एकं द्वावेकमेकं चेत्यनुवाकान्विना क्रमान् । उत्तरेषु त्रिपु प्रश्नेष्वनुवाका दशोदिताः