________________
२४० .
लौगाक्षिस्मृतिः उत्सर्जनं च कुर्वीत विधिनाऽनेन मन्त्रवित् । वेदं समभ्यसेदुक्त्या गुरोरेव सकाशतः॥
वर्णी सम्यग्वेदमेवं सादयित्वा ततः पुनः । तदङ्गानि च तन्मध्ये निद्रालस्यादिवर्जितः॥ लोभमोहक्रोधहीनः वसन्नित्यं गुरोः कुले । श्रोत्रियानागतान्बन्धून यज्वनो याजकानपि ॥ पितरौ प्रणमन् भक्त्या नित्यं कालद्वयेऽप्यति ।
भिक्षान्नमश्नन्प्रयतो मधुमांसादि वर्जनात् ।। खाध्यायकृतशास्त्रौधः सर्वविद्या विशारदः । ऊहापोहविशेषज्ञः क्रियातत्त्वं विशेषवित् सर्वमन्त्रार्थकुशलः सूत्रतत्त्वविचक्षणः । मीमांसान्यायकुशलः धर्मधर्मिविवेकवान् ॥ अध्वद्गातृहोतृणां कार्यकर्तृत्वपेशलः । प्रायश्चित्तेन कुशलः स्नातकी प्रभवेदयम् ।।
तानि काण्डानि वेदस्य प्रवदामि च सुस्फुटम् ।
पौराडाशो याजमानो होता (?) हौत्रमेव च ।। पितृमेधश्च कथितो ब्राह्मणेन च तत्परम् । तथैवानु ब्राह्मणेन प्राजापत्यानि चोचिरे॥ तत्काण्डौघविशेषज्ञाः वसिष्ठाद्या महर्षयः। तद्विशेष प्रकाण्डार्थः सम्यगेतद्विभज्यते पौराडाशा इषे त्वाद्या अनुवाकास्त्रयोदश । तद्ब्राह्मणं तृतीयस्यां प्रत्युष्टं पाठकद्वयम् आद्याः षडनुवाकाश्च विश्वरूपप्रपाठके । समिधो यजतीत्याद्या अनुवाकास्तथा दश अनुब्राह्मणमेतत्तत्प्रश्नद्वयगतं परम् । सन्त्वे त्याद्या याजमानाः अनुवाकाः षडीरिताः अनुवाकास्ततः पञ्च पाकयज्ञादिकाश्च षट् । याजमानब्राह्मणानीत्युच्यन्ते वेदवित्तमैः चित्ति स्नुगादयो मन्त्राः होतार स्तद्विधी इमौ । द्वितीये ह्यष्टके प्रश्ने द्वितीयश्व तृतीयकः सत्यमित्यादिकः प्रश्न इष्टिहौत्रमितीरिते। देव वै नेति पञ्चाऽनुवाका स्तद्विधाः स्मृताः परे युवासं प्रश्नस्तु पितृमेध इतीरितः । इत्युक्तं काण्डनवकं प्राजापत्यं प्रकीर्तितम् ।।
काण्डानामथ सौन्यानां क्रियते च निरूपणम् ।
आध्वर्यका प्रहाश्चैव दक्षिणा ( च ) लतः परम् ॥ समिष्टयजुषां स्तोमः सोमस्त्वव भृतां तथा । वाजपेयः शुक्रियाणि सवश्चापि तथा पुनः