________________
२३६
उत्सर्गोपाकर्मविधिवर्णनम् नित्यं द्विजन्मनां प्रोक्त श्रावण्यां वेदहेतवे ।
पौर्णमास्यामुपाकर्म प्रथमं ब्रह्मचारिणाम् ।। प्रथमोपाकृतिसमं नेह कर्म शुभान्तरम् । तत्रैव क्षुरकर्मादौ ततः स्नानान्तरात्पुनः।। अभ्यञ्जनं यथावच्च संभवैर्भूषणादिभिः । अलंकारैश्च वासोभिः परैनीराजनादिभिः॥ पीतकौपीननिबन्धदपर्णदण्डमुखैरपि । पीतमौज्यजिनस्तावक्षौमकुस्तुम्बरादिभिः ।। प्रवेशनिर्गमाभ्यां च स्वस्तिवाचनपूर्वतः । सर्वमङ्गलवाद्यौघरञ्जनक्रियया तदा ॥ काण्डर्षिवेदहोमेन विरजाहोमतस्तदा । पाहित्रयोदशमहा जपहोमार्चनादिभिः ।। कामो कार्षीजपेनैवं तन्मन्युरजपेन च । वेदाापक्रममहा सत्कर्मकियया ततः॥ तत्समस्तूत्तमो नास्ति तदाद्येव द्विजन्मनाम् । वेदादानपरिग्राहशास्त्रप्रवचनादिभिः ।।
लोके सर्वत्र दृश्यन्ते तदाद्येव च वर्णिनाम् । नित्यं कालद्वये होमः समिधामटवीक्षिताम् ॥ नित्यं कालत्रये सन्ध्यासमतिक्रमणं गुरोः ।
अत्यन्तशिक्षया स्नानं भिक्षाचर्यादिकं तथा !! वेदव्रतानां सर्वेषां समनुष्ठानमेव च । तत्तदुक्तेन विधिना तदा द्य व न तत्पुरः ।।
उपक्रमः प्रकर्तव्यः प्राजापत्याख्यकाण्डके ।
प्राजापत्यव्रतमिदं विधिना विधिचोदनात् ॥ कर्तव्यत्वेन कथितं तदारम्भेऽप्युपाकृतिः। उत्सर्जनं तत्समाप्तौ द्वयमेकस्य केवलम् ।। कर्तव्यमेव तन्मन्त्रैः चरिष्यामीत्यचारिषम् । अग्ने व्रतपतेत्येव तञ्चतुष्टयमन्त्रकैः ।। . एवं नवानां काण्डानामाद्यानां करणं बुधैः । पृथक्त्वेन प्रकथितं सोऽन्यानां च ततस्तथा
___ उपाकृतिस्तथोत्सर्गः नवानां च पृथक् पृथक् ।
तत्तल्लिङ्गश्च तन्मत्रैः तत्तकाण्डर्षिभिस्तथा ॥ पश्चादाग्नेयकाण्डानां समानां करणं बुधैः । प्रचोदितं विधानेन तत्तत्तल्लिङ्गमन्त्रकैः ।। अनन्तरं वैश्वदेवकाण्डानां पूर्ववत्तथा। उत्सर्गोपाकर्मणी ते कतव्यत्वेन चोदिते ॥ एवं चतुश्चत्वारिंशत्काण्डानां समुपक्रमे । समाप्तौ च यथाशास्त्रमुपाकर्मे ततः पुनः॥