________________
२३८
लौगाक्षिस्मृतिः तदाऽहं कल्प प्रभवे वटोर्मध्ये विनिस्थितः ।
पञ्चमान्दादिकः कालः परो मुख्यतमो मतः॥ दशमाब्दे तादृशस्य व्यतीतेऽत्यन्तपातकम् । मातापित्रोश्च बन्धूनां प्रभवेन्नात्रसंशयः।। वेदाक्षरप्रग्रहणशक्तिमस्तं यदा पिता। यदि नोपनयनेत्सद्यः महत्पातकमश्नुते ।।
मौञ्जीकर्मणि ये विप्राः समाहूतास्तु तत्प्रति । न गच्छन्ति न पश्यन्ति ते वै नरकगामिनः ।। स्वकालातिक्रमे मौज्या दैवाद्वा मुख्यगौणयोः । पातित्यं तत्क्षणान्नूनं जातिभ्रंशोऽपि जायते ।। उक्तानां षोडशाब्दानां येन केनापि कर्मणा। व्यतिक्रमेत्तस्य यतो मौज्याः स्यान्न प्रयोजनन् ।। हठाद्यद्यपि कृत्वा वा ब्राह्मण्यं नाऽऽप्नुयादसौ।
किं त्वब्राह्मण्यमाप्नोति पाङ्क्तेयो न भवत्यपि ॥ सत्कर्मकालासंभाष्यः नेक्षणीयश्च पैतृके। सत्कर्मणि महायज्ञे सन्ध्ययोरुभयोरपि ।।
सन्ध्योपनयनात्पश्चात् कालेषु त्रिषु सा भवेत् । अग्निकार्य तथा स्नानं तथैवाऽऽचमनक्रिया ॥ कर्मणामपि सर्वेषां नित्यमाहान्तयोर्भवेत् । सन्ध्यात्यागे ब्राह्मणोऽस्य ब्राह्मण्यं ना .... मश्नुते ।। ब्राह्मण्यं स्नानसन्ध्याभ्यां नान्येनैतत्प्रजायते ।
सन्ध्याकार्यो यदा मौञ्जी विद्यार्थस्य च केवलम् ।। सावित्रग्रहमारभ्य यथा सन्ध्या तथा पुनः । ब्रह्मयज्ञश्व गायत्र्या भवेत्ततर्पणं तथा।। दीपकर्मक्रियायास्तु तथा सायं विधीयते । तत्पदं वेदमुखतः भवेन्नित्यं द्विजन्मनाम्॥ मध्याह्न ब्रह्मयज्ञस्य मुख्यकाल उदाहृतः । प्रातःकालादिकस्सर्वस्तत्समो नैव सर्वदा ।।
वेदोपक्रमणं कुर्यात् कृत्योपाकर्म शास्त्रतः। अकृत्वा तदुपाकर्म न वेदं समुपक्रमेत् ।।