________________
उपनयनावधिसमुल्लक्तिस्यफलानहत्ववर्णनम् तस्मिन्ननुष्ठिते सम्यगेकस्मिन्वा परे । मौज़्याख्ये परमे दिव्ये कृतान्येवेतराण्यपि॥ जातकादीनि कर्माणि गौणकाले कृतान्यपि ।
मुख्यकालकृतानि स्युः उपनीत्या सदैव चेत् ॥ द्रव्यकालादिकैस्तस्य मुख्यस्य यदि संभवे । वैगुण्ये सर्वलोपः स्यादतो ज्ञात्वैतदप्यति
एकां वाऽपि क्रियां विद्वान् मौज्याख्यां सम्यगाचरेत् । तत्रैव मन्त्रसिद्धिः स्यात् तन्त्रसिद्धिः परा शिवा ॥ क्रियासिद्धिः तपस्सिद्धिः श्रेयस्संपन्महोन्नता। ज्ञानसिद्धिलॊकसिद्धिर्भवत्यपि न संशयः॥ पितोपनयनस्यादौ कर्ता पुत्रस्य धर्मतः । स्थिते तस्यापि पितरि पितुः स तु मनीषिभिः॥ प्रोक्तः कर्तेति परमः तस्यापि पितरि स्थिते ।
स एव मुख्यकर्ता स्यात् पितामह इत्ययम् ॥ असौ कथं भवेत्कर्ता चेति प्रकृते सति । उत्तरं तत्र वक्ष्यामि तत्कर्मादौ तदङ्गके।
नान्दीकर्मणि ये देवा अस्य केवलाः । प्रभवेयुर्हि नान्यस्य तदुद्दे शेन कर्म तत् ॥ समाप्यं किल तेनैव मुख्य कर्ताऽथ मुच्यते ।
ज्येष्ठस्य च पितृव्यस्य पितुः पितुश्चापि च ।। प्रपितामहत्यासद्भावे पिता कर्ता भवेदिति । पुत्रस्योपनये वच्मि तथाऽन्येषामसंभवे ।। सतां मातामहादीनां गुरूणामपि दुर्घटे । पिता पुत्रस्योपनीतौ कर्ता स्यादन्यथा न तु तेषामनुज्ञया चेत्तु तद्धर्षेण सुचेतसा । प्रकृतोऽयं भवेदेव नान्यथा न्यायवादिनाम् ।।
. मतिमेव विशेषेण ज्ञातव्यं गुरुबुद्धिभिः ।
__ आषोडशाब्राह्मणस्येत्युक्तः कालः परो न तु ॥ अधिकोऽसत्कल्प एव वटोस्तस्य तु कुत्सितः । प्राप्तायामधिकायां तु तत्कर्मा नर्हतादिभिः