________________
. लौगाक्षिस्मृतिः मौजी लब्धांततो भिक्षांसद्य एव तदा किल । आचार्याय प्रयच्छन्ति महाकुलसमुद्भवाः
मौज्याङ्गदक्षिणां शक्त्या ताम्बूलानि पृथक् पृथक् । सदस्येभ्यो द्विजातिभ्यः प्रयच्छेद वचेतसा ॥ न्यकुर्यान्न तु तत्कुर्यात् तिरस्कुर्यान्न बाडवान् । पूजयेच शिवैर्वाक्यैः दानमानादिभिस्तदा ।। यावन्तो वै सदस्यास्तु तावन्तो दक्षिणाहकाः । विधवानां वर्णिनां च ताम्बूलं न कदाचन ॥ प्रदद्याधा ... स्तूर्णं किंतु दृष्ट्वा विसर्जयेत् ।
याचकेभ्यो द्विजातिभ्यो दरिद्र भ्यो विशेषतः॥ सततं सच्चरित्रेभ्यः प्रदद्यादक्षिणाः शिवाः । केभ्यो नटेभ्यो वो विटेभ्यः सभ्य एव वा
सदूषकेभ्यः पापेभ्यः शैलूषेभ्यो मलेखपि । असदर्पणबुद्धिभ्यः श्रोत्रियेभ्यो विशेषतः ।। न सत्कर्मसु तेभ्योऽथं तूष्णीकं न विसर्जयेत् । अभ्यनुज्ञानिमित्तार्थ निक्षिप्तं यद्धनं तु तत् ॥ यज्वभ्यः श्रोत्रियेभ्यश्च विद्वद्भ्यश्च विशेषतः। ..
मन्त्रार्थविद्भ्यो देयं स्यादन्यानर्थ हेतवे ।। तदनं प्रभवत्येव ततस्तस्मान्न चाचरेत् । पलाशहोमपर्यन्तं मौञ्जीकर्म प्रचक्षते ॥
तावदन्नं यथा शक्त्या ब्राह्मणेभ्यो निवेदयेत् । तृतीयदिवसे मौज्याः प्रकुर्यात्सुमहाशिवः॥ तस्मिन्काले विशेषेण विष्णुलक्ष्म्या समायुतः । सांनिध्यं प्रकरोत्येव देवो वेदमयो विभुः।। तस्मात्तस्मिन् विशेषेण वेदवन्तो द्विजोत्तमाः ।
विशेषेण प्रपूज्यास्यः दानमानार्हणादिभिः ।। कृतं खकाले मौज्याख्यमुत्तमं दिनम् । ब्राह्मस्योत्पादकं स्यादेवमेव न चेतरेत् ।।