________________
मार्कण्डेयस्मृतिः एतन्मार्ग विना मुक्तर्न तु मार्गान्तरं क्वचित् ।
ज्ञानमेव परो मार्गः श्रुतिवाक्यैकजं तु तत् ॥ औपासनाचित्तशुद्धिजन्मभिस्त्रिशतैर्भवेत् । कालद्वयकृतान्नित्यं प्रातस्सायं विधानतः दर्शण पौर्णमासेन जन्मभित्रिशतैस्तथा । चतुःशतैर्जन्मभिः स्यात् तदारयणकर्मणा ॥ पञ्चाशदुत्तरशतजन्मभिः स्यान्मृता तया । मुक्तिरष्टकयादिव्या मासिश्राद्धन तत्परम् तदेवेति मनुं प्राह सर्पबल्या ततः परम् । तत्रिंशदुत्तरशतजन्मभिः सेति चार्यमाः॥ एतेषां कर्मणां प्रतिवर्ष चावृत्तिरिष्यते । कर्मणः सप्तमस्याथ नावृत्त प्रतिवत्सरम् ॥ . एरुवारं जन्ममध्ये करणं तस्य वैधतः । मासि श्राद्धस्य चेत्प्रतिमासं चेति पितामहः॥ श्रुतिस्मृतिपुराणानि शास्त्राणि च तथा जगुः । प्रतिसंवत्सरं चैकवारं वालमितित्रयः ॥. कात्यायनः करुणया कण्वः कुत्सा वन् खलु । तस्य शूलिगवस्यास्य करणादेकदैवहि॥ सर्वक्रतुफलं सद्यः सर्वतीर्थावगाहनात् । सर्वव्रतानुष्ठानाच सर्वकृच्छ्र कचर्यया ॥ सर्वदानशताच्चापि यत्फलं तत्फलं क्षणात् । अवशादेव लभते पञ्चाशजन्मभिः शिवा चित्तशुद्धिर्भवेदेव संशयो नात्र वच्मि वः । अग्निहोत्रादिभिस्तैस्तु हविर्यज्ञः श्रुतीरितैः ।। शताशीतिनवत्येक षष्टित्रिंशद्वयोरपि । पञ्चाशदेकपञ्चाशत् संख्यया सेति निश्चयः॥ त्रिंशदेकोनत्रिंशत्क सप्तविंशतिवाधकैः । लाघराघय धैरेव (१) चित्तशुद्धिरिति श्रुतिः ।। इत्येवं भगवानाह देवदेवः प्रजापतिः । कृतानि कर्माण्येतानि नित्यनैमित्तिकान्यपि ॥ महातत्पापसंज्ञातविघ्नैर्नान्तरितानि चेत् । उक्तकालैकफलदानि स्युरत्र न संशयः ।। न चेत्कर्मानुगुण्येन फलदानि भवन्ति हि । अतः सदा सत्कर्माणि कुर्वन्नित्यमतन्द्रितः
त्यक्त्वैव सन्ति कर्माणि जाग्रतिष्ठेदतन्द्रितः।
अतस्सत्कर्मणः स्याद्धि चित्तशुद्धिरनुत्तमा ॥ उक्तकालेनाचिरेण मुक्तिी त्यन्तदुर्लभा । ब्रह्मादीनां निर्जराणां ते परंवधिकारिणः॥ ते ज्ञानिनोऽपि नितरां महदैश्वर्यचेतसः । कर्माणि चक्र: श्रुत्युक्तकाम्यनैमित्तिकान्यपि
तदिच्छयातस्ते सर्वे ज्ञानिनोऽप्यधिकारिणः । जीवन्मुक्ता इति शेयाः शुद्धचित्तेन ये विभुम् ।