________________
एकविंशतियज्ञवर्णनम् वयु पास्तिर्बहुविधा श्रुत्युक्ताखिलशास्त्रगा। एकविंशतिभेदेन कीर्तिता यज्ञनामकाः॥
एकविंशतियज्ञाः ते यज्ञास्त्रिविधाः प्रोक्ताः पाकयज्ञादिनामकाः।
हविर्यज्ञाख्यकाश्चेति सोमसंस्थाह्वयास्तथा । एते नित्या इति प्रोक्ताः करणेऽभ्युदयावहाः। चित्तशुध्यैककरणास्तद्वारा ज्ञानसाधकाः अकरणेऽत्यन्तदोषाणामालया नरकप्रदाः। तस्मादेतानि कर्माणि नरः कृत्वा प्रमुच्यते ॥ क्रमेशैतानि विधिना चेत्कृतानि मनीषिभिः । यावज्जीवं च धर्मशैः अन्यूनानतिरिक्ततः जन्मन्यस्मिन् महानं चित्तशुद्धिमुखेन वै । जायते मननस्यापुनर्जन्मान्तरं ध्रुवम् ।।
पश्चानिदिध्यासनस्य पुनर्जन्मान्तरं भवेत् ।
सायुज्यं च भवेत्तस्मिन्निदिध्यासनजन्मनि ।। अत्यन्तसुलभोपायः मार्गोऽयं वेदबोधितः। औपासनोपक्रमदिवसमारभ्य तरक्रमात्
कर्माणि यानि चोक्तानि नित्याख्यान्यधुना मया । कृतानिचेत्तत्क्रमेण ब्राह्मणस्य महात्मनः ।। जननेभ्यश्चतुर्थ्यः स्यान्मुक्तिस्सायुज्यसंशिका ।
तत्तत्कर्मानुष्ठानस्य यकिंचिद्वाऽधिकं तु वा ॥ वैकल्यमन्तरायो वा यदि जायेत वै पुनः । जननेभ्यश्चतुभ्यो न भवेन्मुक्तिस्तु किं पुनः
जन्मानि कानिचिद् भूयो लब्ध्वा कर्मानुरूपतः ।
प्रतिपक्षकृताभ्यां वै यावज्जीवं समन्त्रतः॥ । मुक्तिस्सा जायते नूनं ब्राह्मणस्यैव धीमतः । श्रवणं मननं चापि निदिध्यासनमेव च ॥ श्रुतिवाक्यैर्गुरुमुखात् भवेयुः किल नान्यथा। अधिकारी श्रुतेर्यस्तु सहि मुक्त्यैकभाजनम् श्रुतिं विना न मुक्तः स्यादयमेव महान् परः। मार्गोऽयं कथितः सद्भिस्तया श्रुत्या च सर्वतः न कर्मणा न प्रजया न संन्यासेन दानतः । तपसो धनतो वापि नापि तीर्थादिचर्यया। तान्येतानि च सर्वाणि साधकान्येव केवलम् । परंपरतया साक्षान्नैवेति श्रुतिराह हि