________________
मार्कण्डेयस्मृतिः आत्मानं पृथिवीं चापि पृथिवी पूता पुनातुमाम् । इत्यनेनैव यजुषा तज्जलोक्षणपूर्वकम् अभिमन्त्रयते चात्मानं पृथिवीमपि शुद्धये । दश ते ब्राह्मणान् पश्चात् पुनन्तु ब्रह्मणस्पतिः इत्यनेनैव मन्त्रोण ऋत्विजस्तान्विधानतः । षडपि प्रोक्षयेयुश्च पतिरत्र वदन्त्विदम् ॥ जात्येकवचनं कथितं शाखायाः पतयस्त्विमे । अनिर्वायुश्च सूर्यश्च ब्रह्मा चैव प्रजापतिः चन्द्रमाः स्यात्ततो भूयः नक्षत्राणि तपश्च वै । संवत्सरश्च वरुणश्च चरमोऽरुण एव च ॥ एकादशैते तवाः पतयश्चापि ते स्मृताः । ते ब्रह्मणः पुनन्त्वेवं द्वितीया ब्रह्मणः पदम् ।।
ततो भूया ऋत्विजस्तु व्याहृत्युक्तिप्रपूर्वकम् ।
तद्यागनिखिलान्मन्त्रान् पुरोक्तान् तरि मित्ततः ।। आदितः क्रमतोजप्त्वा तद्विज्ञानात्तु संनिधौ । अनन्तरस्थितं मन्त्रां ब्रह्मपूता पुनातु माम् जपेयुरत्तिभक्त्यैव पूतात्रत्यं पदं तथा । अव्ययं ब्रह्मणोऽत्रत्यपदन्यैव विशेषणम् ॥ एवं चतुर्णा मन्त्राणामत्रत्यानां विधानतः । विनियोगः प्रकथितः प्रसंगात्तदनन्तरम् ।। यदुच्छिष्टेति मनुना प्राशयेयुश्च तज्जलम् । शिष्टं कुम्भस्थितं पूतं तनिष्कृतिरितीरिता एवमत्यन्तकृच्छ् स्याद्वर्णिनश्चित्तमुच्यते । एतावन्मात्रमेवं स्याच्चित्तं तु ब्रह्मचारिणाम् एतस्य भूयस्त्वधिकं चरितं यदि वै तदा । न शक्यते विधानाय प्रायश्चित्तासहस्वतः ।। अथापि ते पुनशैंया ब्रह्माण्डकटहादिभिः । महादानैः पवित्राः स्युरित्येवं ते महर्षयः । दयावन्तो ब्रह्मविदो जगुः किल समासतः । अत्यन्तकठिनं तादृगनुष्ठानं महाधनैः ।। कर्तुं शक्यं प्रभवति यतिश्चेदेषु कर्मसु । पतितस्त्वेव कथितः निष्कृतिस्तस्य नैव च । आरूढ पतितो होयः पुनरुद्धरणाक्षमः । आश्रमेषु तु सर्वेषु प्रवरस्सुलभोगृही ॥ प्रायश्चित्तक्षमश्चापि चित्तं चास्यातिसुक्षमम् । अत्यन्तसुलभं चापि गृही तस्माद्वरः परः तरत्यसावुपायेन संसारं दुर्गतिं पराम् । अज्ञानं वृजिनं घोरं तरणस्यास्य भूरिशः।।
उपायाः सुलभा रम्या ते चात्रापि समासतः।
निरूप्यन्ते केचिदत्र कृच्छ दानादिरूपिणः॥ क्रियातपोजपस्वाध्यायादिरूपाः परे पुनः । तेष्वत्र सुलभोपाया वह्नथु पास्तिस्वरूपकः श्रुत्युक्ता ब्रह्मविज्ञानहेतुभूतोद्भुतः परः । स एक एव नितरां मुक्तयेऽलं नरस्य वै ।।