________________
अवकीणि ब्रह्मचारिप्रायश्चित्तवर्णनम् त्रिः प्रथमामन्वाहेति वाक्यतस्तु त्रिरुत्तमाम् । शंसनीयस्य कार्यस्य यत्फलं जायते तदा महानपूर्वः कलिहा तत्तुल्यफलसिद्धये । जटैषा श्रुतिवाक्येन वेदे वाजसनेयके ॥ प्रोक्ता सैषेत्युपक्रम्य तस्मात्कृत्स्नस्य तस्य वै । सम्यगध्ययनं प्रोक्तं तत्तत्त्वज्ञैर्महात्मभिः
अवकीर्णिब्रह्मचारिप्रायश्चितम्
गर्दभालम्भनम् ब्रह्मचारी यादे हठात् प्रमादाद्वाऽतिमोहितः।
रमामुपेयात्पापी स्याब्राह्मण्याच्च्यवते च सः॥ प्रायश्चित्तमिदं तस्य गर्दभालम्भनं स्मृतम् । तदालम्भनकृत्यस्य वह्वीनां सिद्धयेऽस्य वै॥ कुर्यान्नैमित्तिकाधानं सर्वसंभारवर्जितम् । अरण्याहरणादि स्यात्तथा ब्रह्मौदनं च वै॥ तदनिकायं वह्नौ स्यात्तदिष्ट्यन्तं समाचरेत् । तदग्नौ तं पशुं कुर्याद्य पस्तत्र तु वैणवः॥ वैकंकता लोहितो वा पाशुकं कर्म तत्र तत् । भवेदेव विधिस्तस्य कृत्स्नः शिष्टोऽपि वेदगः
छि(छ)त्रापिधानी सा कार्या दध्ना क्षीरेण वा तथा ।
मधुना वाम्भसा नैव विशेषोऽयं प्रकीर्तितः॥ सर्वेषामवदानानां होमः कृत्स्नो भवेत्पुनः । स चः सर्वाः पूरयित्वा विधिनैव पुनःपुनः
पुरोऽनुवाक्या याज्याभ्यां याजमानोक्तिपूर्वकम् । न विद्यु वृष्टिरत्रास्ति सर्वमन्यत्समं भवेत् ।। प्रत्येकं शतनिष्काणां दक्षिणा चात्र चोदिता।
कर्मान्ते ऋत्विजां षण्णां क्षुरकर्मप्रपूर्वकम् ।। अवगाहस्सु विहितः ब्रह्मकूचं च धर्मतः । प्रसर्पकाणां सर्वेषां दिनत्रयमुपोषणम् ॥ . तद्वह्निशमनात्पश्चात् ऋत्विजस्तत्र वाडवैः । दशभिस्तत्र तद्भूमेः शुद्धये शान्तिकर्म तत् आरभेयुर्विधानेन बौधायनविधानतः । क्रियामुदकशान्ताख्यां तत्परं निखिला अपि॥ स्नात्वा तन्मन्त्रसलिलैः धृतयज्ञोपवीतिनः । स्नानतच्छिष्ट सलिलैकदेशेन ततः पुनः॥
आपः पुनन्तु पृथिवीमिति मन्त्रेण तद्भवम् । प्रोक्षयित्वा विधानेन तद्भूमि तदनन्तरम् ।।