________________
मार्कण्डेयस्मृतिः
श्रावण्यामपि तेषां स्याद्वर्णिनां क्षुरकर्म तत् । क्षुरं यथाहिताग्नीनां प्रतिपर्व श्रुतीरितम् ॥ तथोपाकरणे चापि तत्समापनकर्मणि । क्षुरकर्म च संप्रोक्त' सर्वेषां ब्रह्मचारिणाम् ॥ नान्यकालस्तस्य तेषां आकण्ठं तच्च कीर्तितम् । न नखानां कृन्तनं स्यात् न दतधावनं तथा ॥
एकोच्छ्वासद्वादशावगाहनं तस्य पावकम् | स्थानमेतादृशं सर्ववर्णिनां सन्ततं स्मृतम् क्षुरमा मृत्तिकायाः स्नानं पश्चात्पुनः स्मृतम् । मन्त्रस्नानं पुनः कार्यमघमर्षणपूर्वकम् यदि वर्णी गृही कर्म क्रियमाणं करोति चेत् । सुखमिच्छन् जडो दुष्टो प्रायश्चित्तीयते किल ||
गोमयहदसंलीनः याममात्रं दिनत्रयम् । पुनश्च यावकाहारः पक्षमात्रं हरिं स्मरन् ॥ पुण्डरीकाक्षमनुतः दशसाहस्रसंख्यया । मासमात्र द्विषा (सा) हस्र जपत : शुद्धिमाप्नुयात् काण्डाःस्युर्नवसंख्याकाः प्राजापत्याः महत्तराः । सौम्यास्तद्वत्प्रकथिताः आग्नेयाः सप्तकीर्तिताः ॥
वैश्वदेवाः षोडश स्युः शिष्टाः कारकमध्यगाः । एवं चतुश्चत्वारिंशत्संख्याकाः वेदकाण्डकाः ||
उपक्रमोत्सर्जनयोः तेषां तत्क्षुरकर्म वै । वर्णिनां कथितं सद्भिर्धर्मज्ञैब्रह्मवादिभिः ॥ संहिताध्ययनं पूर्व पदाध्ययनमेव वा । पश्चात्क्रमस्याध्ययनं तत्र यं चार्थसिद्धये । संहिताध्ययनात्पूर्वं पदानां संशयो भवेत् । पदाध्ययनमात्रेण क्रमस्याध्ययनं विना ॥ समीचीना संहिता स्यात् कथं तस्मात्तु तत्त्रयम् । सम्यगध्ययनं कुर्यान्न चेद्र कल्पता भवेत् ॥
संहिताऽभ्ययनान्मन्त्रमात्रसिद्धिर्भविष्यति । तदर्थज्ञानसिध्यर्थं पदाध्ययनमुच्यते ॥ पदसन्धिस्वराणां च योगस्य पदवर्णयोः । सिद्धयर्थं तत्क्रमस्यास्याध्ययनं विधिपूर्वकम् चोदितं तद्रहस्यद्वयोस्तु पदयोः पुनः । धारत्रयोच्चारणैकरूपाया वेदकर्मणः ॥ अनुष्ठातुमशक्तानां वेदिनां केवलं तराम् । प्रधानयोगारम्भस्य हेतुभूतासु तासु वै ॥ सामिधेनीषु तद्दृक्षु तासु पञ्चदशस्वपि । प्रथमोत्तमयोर्यागे त्रिवाहेति विधेर्बलात् ॥