________________
. प्रायश्चित्तप्रकरणम् . चतुर्थेऽहनि शुध्येत धेनोर्दक्षिणया तथा । गन्धधारणतः पुष्पधारणाच्छिरसा सकृत् ॥ सद्यः शूद्रत्वमाप्नोति तस्य शुद्धिरियं स्मृता । समुद्रगानदीस्नानदशकं जप एव च ॥
षट्सहस्रच गायच्याः नैष्ठिकी पत्र दक्षिणा।
भुक्तिकाले वर्णिनां स्यादयं धर्म (:) पितु है ॥ ललाटहृद्बाहु मूलस्थानेऽल्पेनैव केवलम् । स्याचन्दनेनानुलिप्तस्तद्वत्तेनैव नान्यथा ॥ माता पिता वा पुत्रैकवात्सल्येन महेष्वपि । हिरण्यरनरजतभूषणालंकृति यदि ॥ कुर्यातां तस्य दोषो न तदन्ते च पुनस्त्यजेत् । पितृमातृकृतं यत्तद्वर्णिनामधिकोत्सवे ॥ स्वर्णालंकरणं रनरजतादिकृतं तथा । श्रेयस्कारकमित्येव प्रवदन्ति मनीषिणः॥ सुगन्धपुष्पाञ्जनतः सद्यः पतति तत्क्षणात्। स्वधृतात्कामकारेण वर्णी त्वादर्शनादपि
आदर्शस्येक्षणादस्य चित्तं शास्त्रं विनिश्चितम् ।
त्रिषा(सा)हरे कगायत्री जप एव न चापरम् ॥ शरीरोद्वर्तनात्सद्यः वर्णी स्यात्किल्बिषी क्षणात् । तदोषपरिहाराय गायत्र्यष्टसहस्रकम् ।। नदीस्नानात्परं शुद्धः जपेत्सूर्यमुखस्थितः । दन्तधावनतस्त्वेवं सकृत्काष्ठमुखेन चेत् ॥ गुरुद्रोहमवाप्नोति दुश्चर्मा च भवेदपि । तस्य चित्तमिदं शेयं ब्रह्मकूचं विधानतः ॥ एकरात्रोपवासश्च ब्राह्मणत्रयभोजनम् । वेदे श्रमं विनान्यत्र करोति यदि वाडवः॥ सद्यः शूद्रत्वमाप्नोति विप्रत्वेन च हीयते । परिहारस्तु तस्याथ येन केनाप्युपायतः॥ शाखामात्रं साधयेद्वा शिष्टं वामास्तु तावता । नष्टं तद्यत्तु विप्रत्वं विरोहत्यपि तावता उपनीतो ब्रह्मचारी वेदत्यागप्रपूर्वकम् । कुर्यात्तर्के श्रमं तेन वैणत्वं प्रतिपद्यते ॥ काव्यालापादि पठनात् सन्ध्यात्यागैकपूर्वतः । यवनत्वमवाप्नोति कालसूत्रं च गच्छति
__ नाट्यालंकारभरतज्योतिशिल्पिरसादितः।।
वर्णी च्युतस्तु मुण्डित्वं रजकत्वं च विन्दति ॥ पुराणस्मृतिसु(मा)त्रार्थज्ञानयत्नेन केवलम् । लेख्यत्वगणकत्वाभ्यां सूतत्वं प्रतिपद्यते ॥ तस्माद्विजो जातमात्रः कृतोपनयनस्ततः । कृतवेदारम्भणोऽयं श्रावण्यां तु गुरोमुखात्
स्वाध्यायोऽध्येतव्यः स्यादिति वेदानुशासनम् । काण्डोपाकरणे चापि काण्डानां च समापने ।