SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उपनयनसमये कृत्यविधिवर्णनम् २३३ वटुं प्रति पिता पश्चात् निक्षिप्तायां ततः पिता। आतिष्ठेतिच मन्त्रेण वटुमारोपयेत्तदा अश्मानं पूर्वनिक्षिप्तं रेवती स्त्वेति युग्मतः। अभिमन्य च तद्वस्त्रं या अकृन्तन्निति त्रिभिः॥ तद्वासः परिधाप्याऽस्य वाचयित्वा च तत्त्रयम् । परीदमिति तत्पश्चादनुमन्त्र्यैन मेव वै॥ मौञ्जीं तं त्रिवृतां सम्यक् प्रादक्षिण्यविधानतः । आवर्तयत् त्रिस्वाहा "" द्वाचयेत्तामृचं यथा॥ इयं दुरुक्तायुग्मं तन्मित्रस्येति ततः परम् । अजिनं चोत्तरं कुर्यादमिष्टे दशभिस्ततः ।। आ(म?)न्त्रेत्यवसाप्याऽथ समुद्रात्तत्समाचरेत् । तद्धस्तं परिगृह्णीयादग्नयेत्वादिकेनतः देवताभ्यो रक्षणाथमर्पयेत्तं वटुं तदा। देवस्य त्वेति मनुना पितैवोपनयेदमुम् ।। अन्ते शर्मन्निति ब्रूयात् सुप्रजा इति दक्षिणे । कर्णे जपन्तं कुर्वीत ततो वटुरयं पुनः ॥ ब्रह्मचर्य यजुर्जप्त्वा सुखं तिष्ठेत्तदुन्मुखः । को नामाऽसीति पित्रोक्त वटुः स्वन्नाममन्त्रतः ।। कस्येति च पुनः प्रोक्ते ह्याचार्येण समन्त्रके । प्राणस्येति वटुर्दद्यादुत्तरं तस्य मन्त्रतः॥ एष तेति पिता प्राह चाध्वनोमिति तत्परम् । वटुः ... योगे योगेति तत्परम् ।। प्रधानहोमः कथितः विशेषः कोऽपि चात्र वै । द्वितीयतुवाचार्यः स्वयमेव वदेन्मनून् । सर्वाशिषोऽन्वाचयीत कुमारेण प्रयत्नेन ह्याचार्योऽत्र शनैः शनैः॥ जधतादि होमात्परतः ब्रह्मणः पुरस्तदा । कूर्चे कुमारदत्ते .... मनुनैव वै॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy