SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रन्ध्रप्रविष्टक्रियाप्रविष्टयोर्भेदवर्णनम् २१७ ग्रामिणो प्रामकर्तारो धर्मतो ग्रामभागिनः । अत्र स्वामी ग्रामकर्ता य आदावकरोत्परम् प्रामं द्विजानां दानेन तत्सकाशप्रतिग्रहाः । ग्रामभाग ( ...... ... ...... ...) ताः॥ प्रतिग्रहिकराल्लब्धप्रतिग्रहपरश्च यः। तद्भागी सोऽपि भवति न तैः साम्यं स विन्दति॥ तादृशस्यास्य मध्याप्तक्षेत्रकस्य विशेषतः । पूर्वाः सर्वे पूजनीयाःये स्युः कर्तृ प्रतिग्रहाः॥ प्रामाधिकारिण ( ............) त्तमोत्तमाः । रन्ध्रक्रियाक्रयस्वैरप्रविष्टा ये दुराशयाः दुर्मार्गा दुश्चरित्राश्च नित्यदुष्टाश्रयाखिलाः । अकार्यकारिणोऽन्येक कार्यप्राधान्यचेतसः अन्यथा कारिणश्चापि राज्ञः स्युर्दण्डभागिनः । तत्रापि सद्यो यत्नेन विज्ञाताश्चेत्क्रियामुखात् ॥ रन्ध्रप्रविष्टाः सन्ताड्याः संशयो नात्र वच्मि वः। कालं प्रतीक्ष्य यत्नेन प्रामभागैकचेतसा प्रामापदि प्रामिभिस्तैर्दत्तभागस्तु संकटे । रन्ध्रप्रविष्ट इत्युक्तः ( ..................) तः ।। क्रियाप्रविष्टः सर्वेषां संमत्या ग्रामकार्यकृत् । तद्दत्तभागस्तद्मामे क्रियाविष्टः स उच्यते॥ तद्विरोधे दण्डनीयस्तदभावे परं त्वयम् । स्थाप्य एव सदा राज्ञा क्रियाविष्टस्तु सर्वतः ॥ ( ......... ) तिर्यः क्रियाविष्टः स उच्यते । सोऽपि क्रियाविष्टतुल्यः तत्र भाग्येव सन्ततम् ॥ तग्रामकार्यातिषु चेदयं नालं हि धर्मतः। गृहीतभोग्यवृत्याघसमाक्रान्तदिगन्तरः ॥ स्वैरप्र (............ ) त एते सीम्नि चेत्स्वके । यदि स्थिताः साधवः स्युर्ज्ञात्वा धर्म स्वकं सतः ॥ कृपया पालनीयाः स्युरुद्वास्यास्तेन चेत्खलाः। ये रन्ध्रादिप्रविष्टाः स्युस्तेषां प्रायेण सन्ततम् ।। दुष्कृत्यं सहजं नात्र ( .......... ) थापि यश्चकः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy